________________
तिलकमञ्जरी वगतम्' । इति ब्रुवाणे मथि क्षणमधोमुखः स तूष्णी स्थित्वा जगाद-'युवराज ! गम्यते । न कश्चिदपि दोपः । दृश्यते च कौतुकमिदम् । किं तु सर्वत एव दुर्ग: पर्वतस्यास्य पर्यन्तेषु तोयराशिन शक्यते महान्तं यत्नमन्तरेण यानापात्रिकैरवगाहयितुम् । अत्र हि महाप्रमाणाः संचरन्ति जलचराः ! पदे पदे प्रकृतिदुस्तराः प्रवहणानां निवर्तयन्ति गतिमावर्ताः। स्थाने स्थाने शिथिलयन्ति यात्रोत्साहमतिशयोदयास्तटग्रावाणः । ईदृशे 5 च निसर्गदुरवतारे नीरधावनवधारिते कर्णधारेषु केनापि निरपाये पथि, यथावदविभाव्यमानसमविषमभागायां विभावर्यामनुक्षणमपेक्षणीयसाहायकेष्वनासन्नवर्तिष्वपरयानपात्रेषु, यानमत्यन्तसक्लेशमिति मन्यमानस्य मे मनाङ्मन्दायते चित्तम्। अभिलाषस्तु न केवलं कुमारस्य ममाप्यस्ति गन्तुम् , यतो पूर्वमध्येकदाऽस्माभिरिहावासितैः श्रुतोऽयमासीत् । अन्यैरपि कर्णधारैरनेकशः कथितमत्र ध्वनेरस्य सामान्येन समुत्थानम् । न तु विशेषतो 10 यतोऽयं प्रवर्तते यो वास्य प्रवर्तक इति कुतोऽपि विशेषोपलब्धिरुपजाता' । इत्यभिहिते तेन समधिकोत्पन्नकौतुकः पुनरवोचम्-'सखे ! यदि तवाप्यभिलाषस्तदलं विलम्बितुम् । उत्तिष्ठ । गमननिष्ठो भव । मैकान्ततो विनिपातभीरुमन्त्रीव यात्राभियोगभङ्गार्थमर्थशास्त्रप्रदशितेन वर्त्मना देशकालसहायवैकल्यादीनि कारणान्यकारणमेव दर्शय । सक्लेशमस्तु अदि वा क्लेशरहितम् , अवश्यमेव तावद् गन्तव्यमवगन्तव्यं च गीतध्वनेरस्य तत्त्वम् । 15 अकृतगमनो न तावदधुना प्रयत्नेनापि शक्नोमि चेतसः कुतूहलतरलितस्य त्वराभङ्गं कर्तुम् । कृत्वापि कृच्छेणावासमुपगतः प्रत्यग्रेण पश्चात्तापहुतभुजा दन्दह्यमानदेहो दिवसमपि न स्वस्थचित्तः स्थास्यामि । प्राप्तनिजभूमेरपि समुद्रवार्तावसरेषु स्मरणस्योपजायमानं न मे कारणमनणीयसो रणरणकस्य न भविष्यति । एवं च स्थिते क्लेशोऽपि वरमस्प. कालमनुभूतः शरीरेण स्तोको, न जीवितावधिमनसा महान् शोकः । यदि च निमित्त- 20 शास्रं प्रमाणं ततः सोऽपि गच्छतामस्माकमिह नास्ति । सर्वत्र निरपाया प्रमोदहेतुश्च यात्रेयमिति भावयं स्वयं तत्त्वदृष्टया। नहि सन्निकृष्टायामापदि दुरुपपादायां च कल्याणसंपदि कदाचिदीदशी निरातङ्कता त्वरा च चित्तवृत्तेभवति । तदलमपायशङ्कया । कुरु स्थिरमस्थान एव भगुरीभूतं चेतः । चिन्तय प्रस्थानकालोचित सकलमात्मीयकल्पम् । अर्पय तमस्तिरोहितवस्तुसाक्षात्करणाय रजनीसमयक्षेपणीयमीक्षणयोरञ्जनम् । नियोजया- 25 ऽन्ययानपात्रिकासत्तिनिरपेक्षः सहायपक्षे युगायत निजमेव भुजयुगलम् । अध्यवसितस्य ते गोष्पदमदृश्यमानपारः सकलोऽयकूपारः, किं पुनश्चक्षुःपरिच्छेद्यमहिमा तदेकोशः ' इति ब्रुवाणे मयि क्षण स दोलायमानचित्तः स्थित्वा पुनरवादीत्-'कुमार ! प्रक्षेपमात्रव्यापारणीये मयि किमियता वचनविस्तरेण ? यद्यवश्यमेव गन्तव्यमिति निश्चयस्तन्न कश्चिदपि ते कौतुकप्रतिपन्थी । प्रस्थीयतामभ्युदयाय । सज्जोऽयमाजन्मनः परिपोषितः 30 सर्वेष्वन्यराजकार्येष्वनुपयुक्त एतावन्मात्रप्रयोजनः प्रेष्यजनः' । इत्यभिधाय, प्रणतेन मूर्ना बद्ध्वा नमस्काराञ्जलि मुदन्यते, तत्क्षणोपनताभिप्रेतशकुनप्रगुणितमनोवृत्तिः प्रवर्तयामास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org