SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ कविधनपालकृता विरलवर्णाश्रमाचाराणि, परिमितपाखण्डव्यवहाराणि, रुचिरोद्भटस्त्रीवेषरचनानि, दुरवबोधभाषावचनानि, स्वभावभीषणाकारैविकृतवेषाडम्बरधारिभिः सनिधानवानतया यमादिवागतकोथैत्रिशङ्कोरिव प्रनष्टास्पृश्यसं निधिपरिहारवासनै रावणादिवोत्पन्नपरदारग्रहणाभिला पैलङ्कानिशाचरलोकादिव संक्रान्तकायकालकान्तिभिः शब्दशास्त्रकारैरिव विहितहस्वदीर्घ5 व्यञ्जनकल्पनरनल्पताडपत्रताडङ्कमुद्रितैकैकर्णच्छिद्रैरन्यायप्रियतया च शत्रिका अप्यङ्गीकृतातिविकटकलहाः कटीभागेनाकलयभिः काललोहकटकान्यपि नितान्तमुखरनिष्ठु राणि प्रकोष्ठगतानि धारयद्भिर्दग्धस्थाणुभिरियोगलब्धचैतन्यैरञ्जनांगेरिशिलास्तम्भैरिवोपजातहस्तपादैः पन्नगैरिव महारत्ननिधानानि निषादाधिपैः संरक्षितानि प्रसाधयन् द्वीपान्तराणि, दूरादेव दृश्यमानश्यामवनलेखमम्बरोल्लेखेना शिखरसंघातेन लच्चित्ताखिलाशामुखमुद10 यास्तशैलमेखलामूलमिलितपूर्वपाश्चात्यभागमसकृद्दर्शितमुग्धमौक्तिकोल्लासहासया प्रारब्धपरि हासयेव लवणजलनिधिवेलया वीचिहम्तापवर्जितैः पयोभिरनवरतमाहन्यमान सुवेलनामानमचलराजमव्रजम् ॥ १०३) तस्य च शिखरिणः स्वभावरमणीयेषु, सर्वतः स्तबकिततिलकचम्पकाशोकबकुलेपु, कलहायमानमत्तपिककुलालापवाचालविकचचूतमालेषु, परिमलसिलितमधुकरी15 निकरान्धकारित कोरकितसरससहकारेषु, रत्नाविलसमुद्रशैवलप्रवालजटिलितराजतालीमूल. जटाजालकेषु, घटितसेतुवानरविकीणगिरिकूटकुटिलितान्तरालमार्गेपु, इतस्ततः सखीस्नेहदूराकृष्टमनसा त्रिजटया विनोदितदयितविरहक्षाम मैथिली केषु, अनेकशः क्रीडानिमित्तमागतया प्रधाननक्तंचरीभिः सह पादचारेण विचरन्त्या लतामन्दिरेषु मन्दोदर्या सविभ्रमा वचितविकचमन्दारेषु, सेतुशिखरोत्सङ्गलवङ्गतरुतलासीनकिन्नरमिथुनगीयमानरामचन्द्र20 चरिताद्भुतेषु प्रशान्तनक्तंचरोपद्रवतया संचरभिरचकितैः समीपाश्रमनिवासिभिस्तापस कुमारकैः प्रकटितविभीषणसौराज्येषु, जनकानुकारिभिर्मारीचमृगसमागतानामरण्यमृगीणामुदरसंभवैभ्रमद्भिरेणकैः स्वदेहकाञ्चनप्रभया पिशङ्गितोद्देशेषु, निद्रानिषण्णकुम्भकर्णाभिनन्दि. तशिशिरहरिचन्दनवी केपु, जानकीवैमुख्यदुःखक्षामदशकण्ठातिवाहितोत्कण्ठेषु, तटवनेषु, कटकितानेकसंगरव्यतिफरखिन्नवाहिनीकः कुतूहलादितस्ततो विचरन् ; 'इह निर्झरेषु दृष्ट25 लङ्कानिर्णीतदशकण्ठकण्ठच्छेदनिदृतेन दशरथात्मजेन स्नात्वा जटायुषे निर्वर्तितः प्रथमो निवापाञ्जलिः, इह प्रहर्षास्फोटनसंक्रान्तसरसगैरिकपङ्कपञ्चाङ्गुलैई श्यमानमूर्तिमत्प्रतापानलशिखैरिव भुजशिख : खर्वयन्तस्त्रिकूटगिरिकूटानि घटितसमग्रसेतुबन्धा बन्धुर ववल्गुरङ्गदपुरोगाः प्लवगपतयः, इयमसमञ्जसक्षिप्तलङ्काप्राकारकाञ्चनशिलाशवला शिबिरसन्नि वेशभूः सुग्रीवस्य, एषा परस्परविलक्षणलक्ष्यमाणराक्षसकपिकरङ्कावयवा रामरावणयोराजि30 भूमिः, इह सकल दिग्मुखान्तरालव्यापिघोषस्य विष्वपि भुवनेषु सर्पतः पौलस्त्ययशसो रथस्येव प्रवर्तकः प्रयत्नवद्भिः क्षपाचरैरनेकधाकृतरक्षोऽपि प्रसह्य मारुतिना भुजबलेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy