________________
विधनपालकृता
सप्रगल्भमुवाच- 'युवराज ! त्वदीयविजयप्रयाणघोषणानुपदमेव सागरोपकण्ठमनुप्राप्तोऽहम् । आगत्य च मया कृतानि सर्वाण्यपि सुसूत्राणि यानपात्राणि । प्रगुणिताः समाहृतसमग्रोपकरणाः पाताः । पुञ्जित तेष्वतिप्राज्यमशनम् । आपूरितानि स्वादुना सलिलेन कृत्स्नान्युदकपात्राणि । समारोपितमप्रमाणमिन्धनम् । अपरोऽपि देहस्थितिसाधनमधिकृतैर्यः 5 कश्चिदर्पितः सोऽपि सर्पिस्तैलकम्बलौषधप्रायः प्रायशो विन्यस्तः समस्तोऽपि द्वीपान्तरदुरापो द्रव्याणां कलापः । स्थापिताश्च सर्वतः समारोपित समर्थनाविकास्तीर्थेषु दृढकाष्ठगुम्फनिष्ठुरा नावः । प्रतिष्ठते अनवरतमारुह्यारुह्य तासु गृहीतनानाविधास्त्रः शिबिरवीरलोकः । निवर्तते नगरसं मुखमखिलोऽपि तत्तत्कार्यमङ्गीकृत्य प्रवर्तितः प्रस्थानकाले रथाश्ववारणादिना तत्रयात्रायामनुपयुक्तः सेनापरिच्छदः । कुमारस्यापि शत्रुविजयाय सज्जीकृता 10 विजययात्राभिधाना नौः । यदि न कश्चित् कार्यविलम्बस्ततः प्रस्थीयतामभ्युदयाय' इति ॥
७६
९९) अहं तु तद्वचनानन्तरमेव सत्वरमुपसृत्य मौहूर्तिकेन शंसितप्रस्थानक्षणस्तत्क्षणमेव राजलोकपरिवृतो गत्वा समासन्निनीरमर्णवतती र देश', तथैवोर्ध्वस्थितः पुरस्थितानुत्तमाङ्गावर्जनेन विनयाञ्जलिकर्मणा नर्मालापेन स्मितेन स्निग्धावलोकितेन च 15 यथोचित प्रयुक्तेन कृतानुब्रजनान् स्वाभिजनवृद्धबान्धवान् सुहृदो राजसेवकान् नगर लोकांच, प्रत्येक ं व्यसर्जयम् । अथ ससंभ्रमेण नौन रिति समकालमुच्चैर्व्याहरतः प्रतीहारवृन्दस्य शब्दमाकर्ण्य तूर्णमानीयत तटाभ्यर्णमर्णवस्य नाविकगणेन नौः । तां चाहमुपसृत्य प्रथम कृतसागरप्रणामो भक्तिप्रवणेन चेतसा शिरसा च बद्धाञ्जलिः प्राणंसिषम्, अध्यरोह च पूर्वाधिरूढेन दूरमवनम्य दत्तहस्तावलम्बस्तारकेण । सपरिग्रहे च पुरोभागवर्तिन 20 मत्तावारणकमध्यमध्यास्य बद्धासने मयि, कृतोत्तरीयसंवरणाश्चरणाभ्यामेव सत्वरमुपसृत्य सर्वे राजपुत्राः सपरिजनाः स्वानि स्वानि यानपात्राण्यधिरुरुहुः, प्रतस्थिरे च परिवार्य माम् ॥
१०० ) अथ श्रुतिपथप्रमाथी हसन्निव समन्ततः प्रसृतनौनिवहसंक्षोभितस्य वारिधेधैर्य कुर्वन्निव द्वीपान्तरवासिनां सर्वसामन्तानामाह्वानं, ग्राहयन्निव सैन्यावकाश25 दानाय दश दिशोऽवधानं दध्वान ध्वजिन्या मुखे मुखरः प्रयाणमङ्गलशङ्खः । तस्य चानुप्रहृतज्ञल्लरीपटहपणवादिवाद्यनादानुसृतेन बन्दिवृन्दजयशब्दकोलाहलशालिना शकुनपाठकश्लोककलकलबहुलेन गृहीततारस्थानगायनीगीतरवतरङ्गितेन विधृतकुसुमाक्षतद्विजातिमण्डलीमन्रोच्चारस्फारितेन तिरयता दिगन्तराभि तारगम्भीरेण रणितेन द्विगुणीकृतगमनरभसः; स्थगितनिःशेषसंधिरन्धया दासपुरन्ध्रिदत्तपिष्टपञ्चाङ्गुलया ध्वजाग्रबद्धाभिनव30 वर्णा शुकपताकया समाहृतसमस्तनिजोपकरणेन सत्यपि स्वकर्मसावधाने संनिधानवर्तिनि नाविकाते विनीतताप्रतिपादनाय कर्णधारतां प्रतिपद्य सद्यो धृतारित्रेण तारकेराधिष्ठितया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org