________________
तिलकमलरी
मनुरागान्धां योजनगन्धामिव पाराशरः प्रणयिनीमकृत । तस्माच्च पाणिग्रहणदिवसादा. रभ्य निर्भरानुरागस्तया सर्वाङ्गसुन्दर्या सह विवर्धमानविविधविदग्धपरिहासमश्रान्त. चित्रचाटुक्रममप्रकटितस्वस्वामिभावमल्पक्षणोपजायमानानेककोपप्रसादमस्थानसंपाद्यमानस्पृहणीयनिग्रहानुग्रहमनुदिवसमासेवमानो नवयौवनोपभोगमुपभोगसुखमपरकामिनीसुरतसंभोगानां गृहव्यापारयोगानां च प्रायच्छदुदकाञ्जलिम् ॥
९७) जलकेतुना कस्यापि सांयात्रिकस्य तनया वहनभङ्गे सागरादुद्धृत्य परिपालितेयमिति तत्त्ववेदिभिरावेदिततीयवृत्तान्तोऽपि, सहांगतैर्वणिग्भिः स्वदेशगमनाय पुनः पुनरभ्यर्थ्यमानोऽपि, दर्शनोत्कण्ठितेन ज्ञातिवर्गण सोपालम्भवचनैः संदेशदानैरुन्मनीक्रियमाणोऽपि, त्रपया स्थितोऽत्रैव, न गतो निजस्थानम् । आस्थानभूमौ उपगतश्च, तं द्रष्टुमाकृतिगुणाकृष्टचेतसा देवेन चन्द्रकेतुना निर्वर्ण्य सुचिर परिजनादाकर्णिततदीयपूर्वा- 10 परवृत्तान्तेन चापल' प्रति पुनः पुनः सपरिहासमाभाषितो, मधुरमारोपित बहुमानश्च जामातृप्रतिपत्त्या, दत्त्वा जीवनमतिप्रमूतं, कृतः प्रभुरखिलस्यापि नाविकतन्त्रस्य । तत्र च कुर्वताधिपत्यमचिरेणैव शिक्षितानेन सकलापि नौप्रचारविद्या, विदितमखिलमपि कर्णधारणां कर्म, कृतानि बहुकृत्वः सलिलराशौ गमनागमनानि, दृष्टा दूरविप्रकृष्टा अपि द्वीपान्तरभूमयः, प्रत्यक्षीकृताः क्षुद्रा अपि जलपथाः, लक्षितानि तेपु सम्यक्समविषमस्थानानि । 15 किं बहुना । स्वल्पेनापि कालेन जातः स सकलस्यापि कर्णधारचक्रस्य धौरेयः । स चायमेवाधार्यतां धीरेण । अस्य हि किमपि लोकोत्तर धैयम् , असाधारणः सत्त्वावष्टम्भः, दृष्टान्तभूत पौरुषम् । ईषदपि न स्पृष्ट एष कैवर्तकुलसंपर्कदोषाशङ्किनेव वणिग्जातिसहभुवा भीरुत्वेन । वीर्यमपि शारीरमविचार्यमस्य । जलधिमध्यमग्ननौसमुद्धरणेष्वनेकशः कवलितोऽपि हऱ्यातलप्रणालसलिलपूर इव हेलया निष्क्रामति मकरमुखतः । कराग्रोल्ला- 20 लितशीकर इव करटभित्तिमाहत्य हरति मदमुदग्रकायानामपि करियादसाम् । मुखान्तरक्षिप्तडुण्डुभमणिरितरनाविक इव निराकुलो वसति दिवसमपि रसातलगम्भीरेऽम्भसि । प्रकृष्टजाङ्गुलिक इव दुरुत्तरास्वपि न मुह्यति विषमोदकविपत्सु । तैस्तैरञ्जनैरञ्जितेक्षणः क्षणदास्वपि समस्तवस्तुजातमुपजातयोगिज्ञान इव विज्ञातनिरवशेषविशेषमावेदयति । सर्वथा योग्योऽयं युज्यतेऽस्मिन्नवसरे स्वनावः कणधारतां नेतुमात्मनश्च प्रणयीकर्तुम् । अनेन 25 हि प्रगल्भवचसा परेङ्गिताकारज्ञेन भक्तिमता प्रक्रमागतव्याहारिणा च सर्वदा प्रतिपन्नसख्यः सुखेन लवयिष्यत्यलघुविस्तारमपि भगधन्तमवारपार पारावार कुमारः, साधयिष्यति च यत्नमन्तरेणापराण्यपि कृच्छ्रसाध्यानि प्रयोजनानि प्रायेण' ।।
[इति समरकेतुवृत्तान्तान्तर्गत तारकवृत्तान्त समाप्तम् ।]
९८) इति जल्पत्येव तस्मिन् स कवर्तनायकः सविधमुपससर्प । क्षितितलोप- 30 सर्पिणा च शिरसा प्रदर्शितादरः कृत्वा प्रणाममतिचिरप्रणयीव स्पष्टवणोंच्चारया गिरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org