________________
कविधनपालकृता
सांयात्रिकैरनुगम्यमान इमामेव नगरीं रङ्गशालामागच्छत् । आयातमात्रस्य च तस्य विविधानिबद्धनगर लोक संपात परिहाराय विपुलावकाशे जलराशिपरिसरे समावासितस्य सभीपवासिना सकलकैवर्तकुलनायकेन जलकेतुनाम्ना कर्णधारेण सार्धं कथञ्चित् सख्यम - जनि । परस्परोपचारकर्मणा च प्रौडिमुपगते तत्र, कदाचिदारूढनवयौवना त्रिदशवनितेव 5 शापदोषान्निपतिता मनुष्यलोके निकामकमनीयदर्शना प्रियदर्शना नाम तस्य जलकेतोः सुता सुतारवृत्तमौक्तिक प्रकल्पितं हारमादाय पितुराज्ञया गता तद्गृहम् । दृष्टश्च स तया प्रथमदर्शन एव रूपातिशयदर्शनारूढदृढतरानुरागया सस्पृहम् । उपनीतोपायना च स्थित्वा कञ्चित् काल कृतप्रत्युपचारा तेन पुनर्याता स्वसदनम् । अनुरागप्रेरिता च तद्दर्शनाशया तैस्तैर्व्यपदेशैरागन्तुमारब्धा प्रतिदिनम् ॥
७४
(९६) एकदा तु तदीयसौध शिखरशालायां सख्या सह क्रीडन्त्याः कथञ्चित् सविधमागतोस । तद्दर्शनोपारूढसाध्वसा च सत्वरं व्रजन्ती वेपथुविशृङ्खलैः पदैः परिस्खलिता । कुट्टिमतले पतन्त्याश्च तस्याः सोपानपथ संनिधौ सत्वरमुपेत्य तेनावलम्बितः प्रवाल इव बालवनलतायाः करिकलभकेन स्निग्धसुकुमार सरलारुणाङ्गुलिर्दक्षिणः पाणिः । प्रमुक्तपाणिना च मधुरमभिहिता स्मितमुखेन - 'सुमुखि ! किमिदं समेऽपि स्खलनम् ? 15 अलममुना संभ्रमेण । संवृणु क्षोभविगलितस्तनांशुकमस्थान एव विसंस्थुलीभूतमात्मानम् । गच्छ गेहम्' इति । सा तु तत्करग्रहणसमकालमेवोत्थितेन सरभसाकृष्टधनुषा कुसुमसायकेन कृतसाहायकेनेव दूरमपसारितसाध्वसा सविभ्र मोल्लासितै कभ्रुवा गुरुणेव नवानुरागेण कारितप्रागल्भ्यकलालापपरिचया, चिरकाललब्धावसरया विदग्धसख्येव तत्समागमतृष्णया स्थापिता स्वयं दूतीव्रतविधौ, निसर्गमुग्धापि प्रौढवनितैव किञ्चिद् विहस्य, वचन20 मिदमुदीरितवती । 'कुमार ! त्वया गृहीतपाणिः कथमहं विसंस्थूलीभूतमात्मानं संवृणोमि ? कथं च गेहादितो गृहान्तर गच्छामि १ सांप्रतमिदमेव में त्वदीय सदनभाश्रयः संवृत्तः' इत्युक्त्वा त्रपावनतवदना पुरः प्रसृतधवलनखमयूखोदयोतया तदीयवकालापश्रवणजातहासयेव वामचरणाङ्गुष्ठलेखया मन्दमन्दमलिखत् कुट्टिमम् । असावपि युवा तेन तस्याः स्मरविकारदर्शनेन तेन तत्कालमतिशयस्पृहणीयतां गतेन रूपलावण्यादिगुणकला25 पेन, तेनामृतस्यन्दशीतलेन करतलस्पर्शेन तेन च प्रकटितानुरागेण, निपुणया वचनभङ्गया कृतेनात्मसमर्पणेन, परमरस्त ! सहासवदनश्च मन्दमाश्लिष्य तामानन्दमुकुलायमानलोचनोत्पलां परिघटय च कपोलोदरे कपोलेन 'सुन्दरि ! यदि न यातव्यं गृहान्तरमिति निश्चयस्ते, ततः किमेकेन गृहेण ? द्रविणसंग्रहो रत्नानि वाहनानि परिजनः शरीर हृदयमिन्द्रियाणि प्राणाः सर्वमेव त्वदीयमेतद् आरोपय स्वेनाङ्गीकारेण गौरवम् । इत्युदीर्य 30 ‘दुष्कुलादपि ग्राह्यमङ्गनारत्नम् ' इत्याचार्यवचनं मनसि कृत्वा स्वजातिनिरपेक्षस्तत्रैव क्षणे ज्वलन्तमन्तर्मदनानल' साक्षीकृत्य भूयो गृहीतपाणिस्तां चकितमृगशावलोललोचनामत्यन्त
"
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org