________________
तिलकमञ्जरी
लिपन्तमघनमधिजघन श्वेतचीनांशुकम् , अच्छलावण्यलिप्तदिग्मुखेन प्रेक्षता सललितं पदक्षेपेषु स्थूलपरिमण्डलेनोरुदण्डयुगलेन चण्डपवनप्रेरणादुभयतः प्रचलितेन्द्रनीलशिलानागरमिव प्रियङ्गुकल्पद्रुमपादपदारुपोतम् , अशोकपादपप्रवालमृदुना संततभ्रमणमृदितवेलाविद्रुमाङ्कुररसद्रवानुरञ्जितेनेव स्वभावपाटलेन चरणद्वयेनोद्भासमानम् ; इन्दुकान्ततटलावण्यं ललाटेन, शुक्तिसौन्दर्य श्रवणयुगलेन, मौक्तिकाकारं दन्तकुड्मलैविद्रु मरागमोष्ठेन, 5 कम्बुसौभाग्यं कण्ठेन, पुलिनाभोगमुरसा, तरङ्गायाम भुजाभ्यामावर्तगाम्भीर्य नाभिमण्डलेन, सततयात्रोपमर्दपीडितादर्णवादिवोपचारेण प्राप्तमुपदर्शयन्तम् ; अनुमार्गलगैरनतिदूरवर्तिभिः काककोकिलकलविङ्ककण्ठकालकायमकरैरिवातप सेवितुमकूपारमध्यादेकहेलया निर्गतैर्मद्गुभिरिव प्रभूतमत्स्याभ्यवहारतृष्णया परित्यक्तपक्षिशरीरैरुरगविषवनिधूमदण्डैरिव धरामव. दार्य रसातलान्निर्यातैश्छायापुरुषैरिव कठोरशरदातपत्रासादेकत्रकृतावासैराशैशवाल्लवणजल- 10 राशिसलिलक्षारदग्धतनुभिरपि निर्लावण्यैनलस्तम्बैरिव जलाशयोपान्तेषु वृद्धिं गतैनौं भिरप्यन्तेवासिनीभिस्तरणविद्यामिवोपशिक्षितु सर्वदा पादतले लुठन्तीभिरुद्भावितमाहात्म्यैनक्रादिजलचरवसाञ्जितलोचनैः कैश्चिदंसावसक्तबडिशवेणुयष्टिमिः कैश्चित् करावलम्बमानबालशफरलुम्बिभिरसंनिहितजालैरपि सर्वतः प्रसृतकालकान्तिपरिगताङ्गतया प्रावृतजालैरिवोपलक्ष्यमाणैः साक्षादसुकृतस्येव विवतैः कैवतैस्तमालविटपमिव कण्टकट्ठ मैः परिवृत', 15 पश्चविंशतिवर्षदेशीयं नाविकयुवानमद्राक्षम् ॥
९४) तस्य च तथाविधं धृतविदग्धोज्ज्वलवेषमाकार', तादृशं च प्रेतप्रायमालोक्य परिवारमुपजातविस्म यस्तत्क्षणमेव पार्श्वतो निविष्टमखिलनौसाधनाध्यक्ष यक्षपालिताभिधानममात्यमुद्दिश्य ' कोऽयम्' इत्यपृच्छम् । 'कुमार ! नाविकोऽयं सकलस्यापि कैवर्ततन्त्रस्यास्य नायकः' इति निवेदिते तेनाश्रद्दधान इव पुनरवदम्-'अत्यन्तविसदृशः 20 कैवर्तानामाकारेण दृश्यते ।' स जगाद- "युवराज ! नाकारेणैव सर्वेणापि प्रकारेण विसदृशोऽयमेषाम् , न चैषामन्येपामपि प्रायेण पुरुषाणां बुद्धिधैर्यवचनवैदग्ध्यादिभिः पुरुषगुणः । शृणु विना विस्तरेण वर्ण्यमानमस्य पूर्ववृत्तान्तम् ॥
[अथ समरकेतुवृत्तान्तान्तान्तर्गत, यक्षपालितनिरूपित तारकवृत्तान्तम् ।]
९५) अस्ति सुवर्णद्वीपे मणिपुराभिधाननगरनिवासी बहुमतो राज्ञः, पौरवर्गस्य च, 25 प्रवीणः किमपि लोकयोत्रायां, सांयात्रिकवणिग् वैश्रणवो नाम । तस्य सर्वदा देवद्विजातिश्रमणगुरुशुश्रूषाप स्य निजभुजार्जित पूर्वपुरुषोपार्जित च प्राज्यमर्थमर्थिजनैः सुहृद् द्भिर्बान्धवै. विद्वद्भिश्च भुक्तशेषमुपभुञ्जानस्य पश्चिमे वयसि वसुदत्ताभिधानायां गृहिण्यामपश्चिमः सर्वापत्यानां तारको नाम दारकः समुदपादि । स रूपसंपदा तुलितसुरकुमारः कौमार एव यथाविधिश्रुतशास्त्रः कलासु कृतश्रमः क्रमागतमशेषपुरुषार्थसंपत्तिपात्रमभिनवमधिरुह्य 30 यौवन यानपात्रं च गृहीतप्रचुरसारभाण्डेभूरिशः कृतद्वीपान्तरयात्रैः सहकारिभिरनेकैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org