________________
७२
कविधनपालकृता
शिथिलितरोमन्थलील सहेलमुत्थाय चरति सति पुञ्जितमग्रतः प्रयत्नसंगृहीतं यवसमन्योन्यतुण्डताडनरणद्विषाणे विषाणिवृन्दे, प्रयतमनुष्यनिश्चलवृतोर्ध्वदण्डिकासु क्रमसमुत्पाट्यमानकीलपरिपाटिविषमसंकुचद्विरतारासु चरममुक्ततनिकाचतुष्टयच्युतावष्टम्भासु तिर्यक पर्यस्यमानासु पटकुटीपु,मुकुलितपटमण्डपे पिण्डीकृतकाण्डपटकप्रकटसामन्तान्तःपुरे दुष्टवाहनारोप्य 5 माणभयचटुलचेटीलोकवि-बोका कृष्टविटचेतसि सहेल चलितसेनापतिसैन्यकोलाहलजनितजनकुतूहले सहृत पर विपणिवीथीपृथाभ्रमद्गृहीतमूल्यक्रयिकलोके, निकटग्रामवासिकीकटकुटुम्बसंगृह्यमाणनिघसयवसेन्धने प्रयत्ननिर्णीयमानपरिकरशून्यसैनिकाव से सर्वतो विचरदनिवारितचमूचरे व्रजति विरलतामनुवेलमुगिन्धर्वनगरे स्कन्धावारे क्रमेण चोद्गते दिवसकृति कृता
भिमतदेवतार्चन विधिपु भोजितभुजिष्यकर्मकरलोकेषु, संवृतप्रकीर्णसर्वोपस्करेषु विनीत10 युग्याधिरोपितकृतसमायोगपुरन्ध्रिवप्वागन्तुकपिपासाप्रतिक्रियोद्युतभुक्तपरिजनपुनरुक्तोप
पादितरेच्यमानचटसोरकेपु. चलितवृषयूथमार्गानुलननिष्ठुरजरन्महिपपृष्ठकण्ठालावलम्बितकुतुपकाष्ठपात्रीशूर्पलोहकर्परेपु समन्नतो निपुणनिरूपितावासभूमिषु सदुःखमुक्तोपमुक्तसदनासन्नसान्द्रद्रुमलतागुल्मेषु सागरावतारदेशमुद्दिश्य चलितेषु सर्वतः सैनिकेषु,
विमुच्य तल्पमल्पपदातिवरिवृतो बाह्यास्थानमण्डपमगच्छम् ।। 15
९३) तत्र चापनीतपन्तपरिकरे संवृतोत्कृष्टविष्टरतया यथाकथञ्चिदासीनराजलोके ढौकितेऽध्वयोग्याजवशावाजिनि निविश्य कृतसमुद्रावतारमार्गावलोकनः प्रत्यूषस्येव पौतिकानां कृताकृतज्ञानाय प्रेषितेन वेत्रिणा सार्धमापतन्तम् ; असितोत्पलदलश्यामावदातवर्णमर्णवेनेव पूजाप्रीतेन प्रहितमवगाहनार्थमभिनवं वेलावनप्रियमुपादपम् , अचिरमज्जनविशेषस्निग्ध
सुकुमारवपुपम् , अल्पमालतीपुष्परचितशेखरम् , उल्लिखितशङ्खावदातद्युतिनी नवे दुकूल20 वाससी वसानम् , अनवसानताम्बूलोपयोगपोषितस्वभावपाटलाधरपुटच्छविम् ; इन्दुला
छनच्छायापहारपटुना शरीरप्रभा पटलेन जलनिधिजलेनेव सातिरेकलावण्यलाभतृष्णया संनिधावनुग्जितावस्थान, प्रस्थानकालकल्पितामनल्पविस्तारे वदनलावण्यपयसि निपततां कटकलोकलाचनानामवलम्बनाय नावमिव संगृहीतां चन्दनपङ्कलेखिकामधिललाटतटमाद
शयन्तम् ; अभ्यर्णापतत्कर्णधारव्यापारणेषु सविलास मुत्सर्पतो लोचनयुगलस्य क्षौमपाण्डुभिः 25 प्रभानिर्गमैरधिकशोभाधानाय थानपात्राणां सितपटानिव नवानासूत्रयन्तम् , आसतकर्णा
भरणपद्मरागरागाममुशोभेदकालकपिलिमानमिव कोमलाविरलनीलकेशकुण्डलिकालङ्कृतां श्मश्रुराजिमुद्वहन्तम् ; आमलकीफलस्थूलमुक्ताफलभृता सर्वतः प्रमृतकिरणविसरेण मुक्ता सरेण तीरजलगाधतावलोकनसमथलग्नेन जलधिफेनस्तबकवलयेनेव कृतकण्ठपरिवेषम् ,
आसक्तमुक्तासरस्फारमहसा हसन्तमिव वेलानदीपुलिनपरिणाहमतिपृथुलेन वक्षःस्थलेन, 30 ग्रस्तसागरागस्त्यजठरख्यातिदुःखेनेव क्षीणकुक्षिम् ; आजानुलम्बमांसलबाहुम् , अतिनिष्ठुर
करप्रकोष्ठनिहितकैकहाटककटकम् ; उभयतः प्रसर्पता सलीलदोलायमानकरतलोपनीतेन प्रकोष्ठकटकेन्द्रनीलकिरणरागेण नीलीरसेनेव भाविसंततप्रयाणसुलभमालिन्यलोपनाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org