________________
७१
तिलकमञ्जरी
लक्ष्मीचिरोपभुक्तप्रदेश, त्रिदशानीतशेषकतिपयाप्सरःसंचारसूचितमथनस्थानमुद्वहन्तम् ; गृहीतवेलैः समृत्यैरिव वनैः परिवृतम् , अमृतस्यन्दिभिर्गुरूपदेशैरिव शशाङ्कपादेशहितोदयं ; विस्तारितरगैः कुशीलवैरिव नदीपूनिय॑मानम् , उल्लासितवेत्रयाष्टभिः प्रतीहारिव मरुभिर्विक्ष मंचार्यमाणं, स्वदेहोभवेन दुप्पुत्रेणेव वाढवाग्निना शोष्यमाणम् , ऊर्मिमालाभिप्यनासादितपरपारम् , आशागरप्यसोढगोंगा, खेचर राज्यवीक्षितशिखाविश्राम, सर्वज्ञे- 5 नाप्यविज्ञातसर्वजलचरनाम ग्राम, तिमि गिलगिटैरप्यालवितभीषणावर्त, मैनाकगोत्रगिरिभिरप्यनवगाढकुक्षिगुहागत; प्रभवं विपम्य पीयूपस्य च, पात्रं जलस्य जातवेदसश्च, पदं वृद्धेः क्षयस्य च, सदनमसुरारेर्दानवानां च, धुर्य मर्यादावतामदृष्टसीम्नां च, कुलमन्दिर मदिराया द्विजराजस्य च ; निवातकवचयुद्धमिव मुक्ताफलववेन्द्रनीलप्रभासुरदुरालोक, वृत्रमिवोपकण्ठलग्नवज्रानुविद्धफेनन्छटापट्टतहृदयासुखं, सुराचलमिव स्वर्णदीप्रकटकान्तं ; स्थिरमपि 10 विसारि, चारुकल्लोलमपि कूर्मि, तार्यवपुरियाखण्डितं सर्पदश वसुंधराया मधुरिपोश्च वास इति विश्रुतमुदहन्तं वारि, भगवन्तमम्भोनिधिमपश्यम् ।।
९१) तस्य चाविषमविस्तीर्णावकाशे सर्वतो वहत्स्वादुसलिलस्रोतसि वेलाचलप्रान्तपरिसरे सन्निविष्टम् , अनतिसन्निकृष्टप्रधानसचिवावासम् , उल्लासितानेकवर्णघनवितानरुत्पातगगनमिव दिगन्तैः परिगतमशेषतः सामन्तशिविरैः, प्रतिद्वारमुच्छ्रितानेकमकर- 15 तोरणम् , अनेककक्षान्तरोपेतम् , इतस्ततः प्रकल्पिताधिकारिकर्मशालं, कुण्डलीकृतशक्रकोदण्डशोभाविडम्बनदक्षाभिः शरीररक्षाधिकारनियुक्तानां वीरपुरुषाणामन्योन्यलग्नाभिरनेकवर्णगुणलयनिकाभिस्त्रिःपरिक्षिप्तम् , ऊर्ध्वनिखात निश्चलस्थूणाश्रेणिसंयतया वेणुदण्डिकामय्या महाप्रमाणया वृत्या समन्ततः परिवृतैः श्वेश्च शितिभिश्च लोहितैश्च कल्मापैश्च महाकायमण्डपिकामण्डिताजिर रखण्डबुध्नाण्डकपरिमण्डलाकारैः पटागारः स्थपुटितावकाशं 20 स्वावासमव्रजम् ।
९२) तत्र चाभिनवपितृवियोगशून्ये नापि चेतसा चिन्तयन्नमात्यमण्डलेन सह परमण्डलकृत्यमनुपालयन् गमनसामग्रीवर ग्रमात्मपरिग्रहप्राग्रहरलोकमालोकयन्नानीतानि गत्वा सत्वारपालरासन्नवेलाकूलतनगरेभ्यो यात्राक्षमाणि यानपात्राणि, द्वित्राणि दिनान्यतिष्ठम् । अनुष्ठितसकल तत्कालकृत्यश्च पुरः प्रतिष्ठासुरन्यतरेयुरपराह्नसमये समाहूतसकल. 25 निजपरिप द्विजातिमल्लसत्तारतूर्य घोषामुदारवेषयोषिद्वन्द गीयमानगाम्भीर्यमहिममर्यादादिजल निधिगुणामाचमनपूतपुरोहितगृहीतकनकापात्रनिक्षिप्तदधिदूर्वाक्षता स्वयमेवेक्षितै क्यवलिभिर्विलेपनैः पुष्पदामभिशुकै रत्नालंकारेश्च वह विकल्पैरुपकल्पितामनल्पया भक्या भगवतो रत्नाकरस्य पूजां प्रातिष्ठिपम् । तीतभूयिष्ठायां च शर्मामाहते प्रयाणपटहे, रटत्सु राजद्वारि तारध्वनिषु मङ्गलतूपु, सत्वरोत्थितगृहस्थ र्निदयाक्रोशकर्शितनिद्रेपु निःसरत्सु 30 तृणकुटीरकोटरादतिकष्टमुक्तसंस्तरेषु कर्मकरेषु, पुरोनिविष्टरन्धनःक्षदासीसंधुक्षितानलासु ज्वलन्तीषु सर्वतः क्वथनवाचालस्थालीपरम्परापरिकरितचूलासु प्राङ्गणचुल्लीषु, समकाल.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org