________________
तिलकमञ्जरी
पार्शविन्यस्तहस्तयुगलैश्च, शीर्णपट्टिकागाढग्रथितासिधेनुकैच, धौतशाटककृतशिरोवेष्टनैश्च, वेणुष्टिषु कृतावष्टम्भैश्च, स्कन्धाधिरोपितदयितडिम्मैश्च, सर्वत्र सकुतूहलैरपि सविशेष करिषु कपिषु क्रमेलकेषु च प्रहितदृष्टिभिः, प्रमाणरूपबलोपचयशालिनां प्रत्येकमनडुहां मूल्यमानमुद्घट्टयद्भिः , 'कथय, क एष राजपुत्रः? केयं राज्ञी ? किमभिधानोऽयं द्विरदः ?' इत्यनवरतप्रयुक्तया प्रश्नपरम्परया कदर्थितसकृद्दृष्टकटकग्रामलाकुटिकैः, करेणुकाधिरुदं क्षुद्र- 5 गणिकागणमप्यन्तःपुरमिति धृतोप्णवारण चारणमपि महाराजपुत्र इति कनकनिष्कावृतकन्धर वणिजमपि राजप्रसादचिन्तक इति चिन्तयद्भिः, पृष्टैरपि प्रतिवचनमप्रयच्छद्धिः आडूतैरप्यन्यतो गच्छद्भिः, पश्यतोऽप्यभिमुखमगुलीभिर्दर्शयद्भिः, शृण्वतामपि चेष्टितमशङ्कि: तैरुच्चस्वनेन सूचयद्भिर्विषमावतारसंमर्देषु दुर्दान्तकरभवाजिवृषभोत्प्लवनेषु व्यालदन्तिवेगोपसर्पणेषु च स्खलतः पततः पलायमानानवलोक्यावलोक्य समकालकृतकलकलैः सताल- 10 शब्दमुञ्चस्तरां हसद्भिः कैश्चिन्मार्गनिहितनिश्चलदृष्टिभिः पश्चादेष्यतां दिगन्तविख्यातयशसामुर्वीभृतां कुमाराणां राजपत्नीनां प्रधानगणिकानां पट्टहस्तिनां च दर्शनाश या क्षुत्पिपा सापरिगतैरूज़शो शुष्यद्भिः, कैश्चित पृष्ठसङ्गिस्वैरपामरीपीवरस्तनस्पर्शलुब्धैः पीडितैरपि समन्ततः प्रेक्षकजनेन स्थानमत्यजद्भिः, कैश्चिन्मनोरथशतासादितग्रामपतिसुतासंनिधानलं. ब्धमहानिधानैरिव खलधानाः साधनिकलोकेन निखिलमपि नीयमानं बुसं बुसाय मत्वाऽ- 15 वधीरयद्भिः, कैश्चिद् गृह्यमाणयवसरक्षणव्यौरर्थलोभादभिलपितलञ्चानां न्यञ्चया लाकुटिकानां क्लेशमनुभवद्भिः, कैश्चिदाक्रुष्टहस्तिपकचोदितद्विरदपुरस्कृतैः प्रपलाय्य दूरीकृतात्महननैरात्मनोऽविडम्बनाय ब्राह्मण्यमाविष्कुर्वद्भिः, कैश्चिदनिबद्धलोकलुण्टयमानशाकवाटकर घटित. प्रयोजनामवनिपाज्ञां सावज्ञमुपहसद्भिः, कैश्चिदानन्दगद्गदिकागृहीतकण्ठनिगृहीतलुण्टाकनातवार्तया लुण्टितेनुपाटदुःखदुर्बलं कृषीवललोकमपशोक कुर्वभिः, कैश्चिज्जवप्राप्तपरिपालक- 20 व्यूहरक्षितसुजातहेयैरनेकधा नरेन्द्रमभिनन्दयद्भिः, कश्चिदलब्धावकाशठकुरहठनिराकृतराश्रयाय प्रतिगृहं गृहीतभा राहिण्डयदभिः, कैश्चित् कलह निष्कासितशालीनकुलपुत्रकवर्ग: सगर्वमग्रतो ग्रामपोटानां प्रौढिमात्मनः प्रकट यद्भिः, अन्यैस्तु दूरोदस्तकण्ठैः पृष्ठलनहष्टवाल कवृन्दकलकलसूचितान् ग्राममध्ये विचरतः स्वच्छन्दचारिणो महामात्रतन्त्रेण परिवृतान् वारणपतीनवलोक्य जातसंक्षोभैझटिति कोष्ठकद्वारेषु संग्रहकान् पातयद्भिः पश्चाद्वाटकेषु 25 गोमयपिण्डकूटानि गोपयद्भिर्मग्नवृतिषु निष्कुटेषु त्रपुसकारुकारवेल्लकादिवल्लीफलान्यादायादाय वेश्मनि प्रवेशयद्भिगृहधनं च कांस्यपात्रिकासूत्रकम्बलप्रायं बलधिकृतधामन्यबलाजनस्य न्यासीकुर्वद्भिरनेकवृत्तान्तै मेयकैरवलोक्यमानबलसंहतिः, प्रतिमार्गमुत्तम्भिताभिनवतोरणान् स्थानस्थानोपसर्पत्कुसुमफलहस्तवास्तव्यवित्ताढचलोकानूर्वीकृतासु तत्क्षण वेणुयष्टिषु कुड्मलीकृत्य योजितैर्माञ्जिष्ठैश्च माहारजनैश्च कर्पटैः जटालीकृतशीर्णगृहपटलानति- 30 क्रम्य कतिचिद् वेलावनग्रामकानग्रतो दत्तदृष्टिः; विधानमिव पात लस्य, मणिकुट्टिममिव त्रिभुवनचतुःशालस्य, जन्मपल्वलमिवाकाशकुवल यस्य, प्रभापटलभिव विरमण्डलेन्द्रनीलवल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org