SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ कविधनपालकृता कीर ८९) क्रमेण च शरत्समयपरिचयप्रपञ्चित शोभाम्, आभोगिनीम्, उदारकलमकेदारपरिमलामोहितवनानिलामू, उन्मदकुर र कादम्बसारसाराव मुखरितसरस्तीरनीरां चञ्चुपुटुच्युतार्धजग्धप्रियङ्गुमञ्जरीपिञ्जरजर द्रुमतलाम्, अक्षुद्रपादपाल/नितैरनवरतवेलत्कर्णपल्लवतरलितेन प्रतिवेलमुड्डीयमानेन निलीयमानेन च झङ्कारिणा मधुकरमण्डलेन 5 पीयमानोद्दामदान निर्झरैरप्रमत्तरक्षण पदातिवार्यमाणासंस्तु तजनप्रत्यासत्तिभिः पर्यन्तरचिततृणकुटीर के प्रतिक्षण माधोरणगणेन क्रियमाणविविधोपचारैरनवलोकितपरस्परैः प्रसिद्धाभिधानेजगति प्रधानवारणैरधिष्ठितोशाम्, आगृहीतद्वीपान्तरगामिभूरिभाण्डैराभरणपर्याणकादिवृषपस्करसमारचनसंततव्यामृतभृतकैरभिनवस्यूतताम्रपट कुटीर कोणावस्था पितस्थूलद्रविणकण्ठाः प्राङ्गणोपरचितगोणीगणाट्टालकसूचितैः प्रस्थान निर्गतानामाढ चनैगमानामनेकतुर गावतर संकुलैः 10 सार्थैः स्थानस्थानेषु कृतावस्थानाम्, अच्छशीतलस्वादुसलिलभिः सुधाधवलवरण्डिकावलयकुण्डलितकूलाभिर्द्वाररभित्तिगर्भप्रतिष्ठितानेकदेवताप्रतिमाभिस्तृष्णातुरावत र दनन्तपथिकपातभयादिव पुरःप्रसारितोभयाग्रहस्तेन भेककुटुम्बिनीकदम्बकेन कृतकलकलेन!लम्बितसोपानमाला मूलदेशाभिरतिसुलिए लोहेष्टक चिताभिर्मार्गवा पीभिः स्थपुटितमहावट द्रुमोपान्तस्थलाम्, अन्तरान्तरा च प्रावृषेण्यसलिलपूरक्षालनापनीतसकलपङ्कमलाभिरासन्नयामवासिना वणि15 जनेन तत इतः प्रकटितौदनाज्यदधिभाण्डखण्डमोदकप्रायपण्यप्रसारकाभिस्तटस्थपथिकपालिकाविलोक्यमानमुक्तोज्झितान्नलवकघलना कुलशकुलकुलाभिर्दूर निर्गत जलार्द्रमार्ग पशुनित पशुपरम्परोत्ताराभिरनवरतलोक विश्रामक्षामितोपान्तवेत सवनाभिर्वन स्रोतोवहाभिः सीमन्तिताम्, ईषदुपजातशोषकरीषसुखसंचारविशिखैः सपर्णतरुलता निवेशजटालवेश्म पटलैरजिरमण्डपच्छाया निविष्टगोरसपरिपुष्टमहाकाय पुष्ट कौलेयकैः सकलकलोच्छलत्प्राज्यपरिमलव्यञ्जिततप्ताज्य20 तत्रविन्दुक्षेपैरुत्कर्णतर्णका कर्णितमध्यमानमधितमन्थनी मन्थरनिर्घोषैः सतोषघोषाधिपसमाहूमानपर्यत्पासार्थिपथिकपेटकैः क्रमागतैकैकबठरद्विज तिवचनांनर्विचारप्रवर्तितशयनासनस्नानदानादिसर्व क्रियैः प्रातरेव प्रचारनिर्गताभिस्तत्कालमधिगताधिक बलोपचयबृंहितेन स्वाभाविकभव्यतागुणेन द्विगुणाकृष्टलोकदृष्टिभिः पीनपरिमण्डलापीनभार विकटमन्थरगमना भिरनघण्टिक घोष रमणीयमितस्ततो विचरन्तीभिः सततानुचरचाटुकारस्वैर सोरभेयो 25 भिरचिरजातप्रसवाभिरद्य श्रीनाभिश्च गोभिरशून्य पर्यन्तै तुहिन पातशीन है यंगवीन वर्णतनुलतालाः वण्याभिः क्षीरधवलवलत्कटाक्षच्छटा प्रतिक्षणक्षालितदिग्मुखाभिर्नवनीतपिण्डपाण्डुवात्कठिनपरिमण्डलस्तनकलशयुगलाभिर्गोरसश्रीभिरिव शरीरिणीभिः सविभ्रमैरङ्गवलनैः स्नेहनिर्भराणि दधीनि बलवहृदयानीव निर्दयमामनतीभिर्गोपललनाभिः सर्वतः समाकुलैर्गोकुलैरधिष्ठितकक्षौपकण्ठां, नगरसीमा लङ्घयम् ॥ ९०) अथाग्रेसराश्ववारदर्शनक्षुभितैः 'कटकमागच्छति' इति जनवादुपलभ्योपलभ्य सर्वतः प्रधावितैः, परित्यक्तनिज निज व्यापारैरवकर कूट केष्वधिरूढैस्तडागप | ली पुञ्जितैर्देवकुलवरण्डकेषु कृतावस्थानैः, पादपस्कन्धेषु बद्धासनैरुध्वैश्चोपविटेश्च, लम्बितोभयभुजैश्व, जघन ६८ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy