________________
६७
तिलकमारी स्पर्शालादिना चन्दनाङ्गरागेण सर्वाङ्गीणेन शोभमानः, स्थूलस्वच्छमुक्ताफलग्रथितां तत्क्षण प्रमुदिताया वक्षःस्थलभाजो राजलक्ष्म्या लोचनद्वयादानन्दाश्रुपद्धतिमिव द्विधाप्रवृत्तां नाभिचक्रचुम्बिनीमेकावली दधानो, बद्धचन्दनप्रवालवन्दनमालातरङ्गिततोरणम् , उद्दामगन्धोदकच्छटाविच्छविरजीकृता जिरम् , आगृहीतोज्ज्वलवेषचारसंचरद्वारवनिताजनम् , अवहितप्रतीहारनिर्धार्थमाणानिबद्धभाषिबाह्यपरिजनं, सभामण्डपमगच्छम् ॥
८८) तत्र च पवित्रमणिवेदिकापृष्ठनिहिते महति हेमासने प्राङ्मुखोपविष्टः, तत्कालमभिमुखीभूताभिः, साक्षादिव जयश्रीभिरूरुसंदंशदष्टनिवसनाग्रपल्लवस्पष्टीकृतनितम्बपरिणाहाभिः, ईषदवनमितपूर्वकायतया मिलद्वलित्रययस्रीभूतनाभिमण्डलाभोगाभिः, कनक. वलयावलीवाचालभुजलतोत्क्षेपलक्ष्यमाणपीनोद्भुरपयोधराभिः, उज्झितस्तनोत्सङ्गनिःसङ्गलम्बमानप्रलम्बमौक्तिकपालम्बाभिः, पुरोनिहितदधिकुसुमदूर्वाङ्कुरसनाथाक्षतपूर्णकनकपात्राभिः, 10 अन्तःपुरविलासिनीभिः संपादितसकलयात्रामङ्गलः; प्रत्यग्रसप्तच्छदप्रवालदत्तसान्द्रमुखमुद्रमभिवन्द्य पुरःस्थापितं राजतपूर्णकुम्भम् , अप्रतिस्थाध्ययनध्वनिमुखरेण पुरःसरपुरोधसा द्विजाति वृन्देनानुगम्यमानः,चरणाभ्यामेव गत्वा प्रथमकक्षान्तरद्वारभूमिम् , अग्रतः ससंभ्रमव्यापरिताइकुशेन वज्राङकुशनाम्ना महामात्रेण प्राङ्मुखीकृत्य विधृतं, सितपिष्टपङ्कपाण्डुरितगात्रम् , अक्षुद्रमणिचित्रनक्षत्रमालापरिक्षिप्तं, सिन्दूरपाटलविकटकुम्भभागम् ,आरोपितानेकनिशितशस्त्र 15 प्रभासारशातकुम्भसारीपरिकरितपृष्ठपीठम् , अश्रान्तमदवारिधारादुर्दिनान्धकारितकरटकूट, त्रिकूटपर्वतमिव परित्यक्तस्थावरावस्थम् , अमरवल्लभाभिधानं गन्धगजमधिरूढो; दृढावनद्धतारतूणीरबन्धुरोभयस्कन्धशिखरः कनकपत्रभङ्गचित्रमध्यभागभाजा शरासनेन सनाथवामहस्तः, सलीलमुद्धयमानवालव्यजनकलापः, सर्पसर्पत्पदातिनिर्दयपादपातप्रवर्तिताकाण्डमेदिनीकम्पः, प्रहर्षात्तालवैतालिकवाततारतरो ष्यमाणजयजयध्वनिः, ध्वनद्विजयमङ्गलाभिधानतूर्यनिघोष- 20 बधिरिताखिलब्रह्मस्तम्बः; पुरस्तात् सलीलचलितकरिघटारूढकिङ्करपुरुषपातितविरलघनघातानामुत्पातनिर्घातघोरघोषोद्गारमतितारमारसन्तीनां ढकानां ध्वनितेन मुखरयन्निखिलान्यपि दिशां मुखानि, शिखरविस्फुरत्पद्मरागदलस्थूलकलशस्य दोलायमानावचूलमुक्ताफलदाम्नश्चित्ररत्नखण्डखचितचामीकरदण्डस्य पुरः प्रसर्पतः वेतातपत्रषण्डस्य पर्यन्तयायिनामनिलभरितरन्ध्रवर्त्मव्यक्तरूपाणामिभवराहशरभशार्दूलमकरमत्स्याद्याकारधारिणामनेकपार्थिवसमर- 25 संगृहीतानां चिह्नकानामपढ्नुताकरोचिषां चक्रवालेन जटिलीकृतदिगन्तरालो ; राजकुलान्निर. गच्छम् । अनुपदं च प्रणामपरितुष्टाभिर्विजयाशिषाभिनन्द्यमानो द्विजातिपरिषद्भिविनयविरचिताञ्जलिपुटाभिः प्रणम्यमानः पौरजनताभिरुत्सृष्टलाजवृष्टिभिरुपुष्यमाणमनोरथसिद्धिनगरवृद्धाभिः, प्रीतिनिर्भरदृष्टिपातकुवलयितदिग्वलयाभिरवलोक्यमानो नागरिकाभिर्नगरान्निरगमम् ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org