________________
६६
कविधनपालकृता स्वस्थेन भवता स्थीयते ? किमर्थमिदमतर्कितागतेन तमसा समास्कन्दितं वदनमिन्दुमिव चन्द्रिका नायति नमार्लापेष्वपि कुन्दनिर्मला ते स्मितद्युतिः १ किमित्यधिकमधुरा अपि परपुरन्धिदूतीगिर इव श्रवसि न विशन्ति शृङ्गारप्रधानाचिरन्तनकवीनामुक्तयः १ केन हेतुना नूतनैरपि सुहनज्जसूक्तैरजात पुलकोद्गतिरुभयपाणिपर्यशरणा धार्यते कपोलद्वयी ? 5 कञ्चिन्न मयि जल्पति जातमुपतापदायिनः स्ववृत्तान्तस्य कस्यचिदाकस्मिक स्मरणम् ?
यथाऽयमार्यार्थसूचितो युवा तथा न त्वमपि कुसुमायुधजयपताकया कया.यवनिपालकन्यया क्वापि नयनमार्गणैर्विद्धः १ प्रयुक्तप्रार्थनश्च निपुणमनयेव चतुरया वचनभङ्गया न कचिन् सङ्केतस्थानकथनेन कृतार्थीकृतोऽसि ? कृतप्रयत्नश्च तदवाप्तये विधिवशादतर्कितोपनतेन
केनचिद् गरीयसा कार्येण तत्समागमसुखाना न दूरीकृतोऽसि ?' इत्यादृतेन नृपतिसूनुना 10 प्रयुक्तहृदयंगमप्रश्नः शनैरुन्नम्य सत्वरगृहीतोत्तरीयपल्लवप्रमृष्टदृष्टिवदनमनादरविलोकितपार्थवर्ति
राजलोकः सशोक इव समरकेतुर्विरतवाक्प्रवृत्तिः स्थित्वा मुहूर्तमुपचक्रमे वतुम्-'अमानुषी. कुमार ! तव प्रज्ञा प्रजापतेरिव तनुस्तनोति सर्वतोमुखतया पर मे मनसि विस्मयम् । अखिलजनमानसनिवासादिव त्वया समासादितमिदं पराशयज्ञानकौशलम् । किमहमत्रापर
कथयामि ? निजयैव प्रज्ञया निवेदितस्ते सकलोऽपि सामान्येन मदुःखवृत्तान्तः । यदि परं, 15 परिकर एव मयास्य कथनीयः । तमपि वज्रसारकठोरहृदयस्वया समाज्ञापित इति
विज्ञापयामि । किन्तु महती कथैषा । न शक्यते संक्षिप्य कथयितुम् । विस्तरतस्तु कथ्यमाना पराणि कार्यान्तराण्यन्तरयिष्यति । तथापि यदि कौतुकमावेदयामि । श्रूयतामेतत् ॥
[अथ समरकेतुनिरूपितमात्मवृत्तान्तम् ] 20 ८६) प्रायेण श्रुतिविषयमायातमेव श्रुतिमतां वरस्य यथा, सिंहलेपनि समस्त
वसुमतीभूषणमभ्रऋषप्राकारवलया विमानाकारपौरालयसहस्रशालिनी नगरी रङ्गशाला नाम । तत्रस्थः पिता मे चन्द्रकेतुः कदाचिद् देशकालाधवष्टम्भसंभृतावलेपानां प्रपन्नमपि पूर्वादायमप्रयच्छतां विक्षेपविसर्जनेषु कालक्षेपकारिणामाह्वानेषु बह्वनागमनकारणव्याहारिणाम् ,
उत्सवेष्वहृष्टानाम् ,आपत्सु सविलासचेष्ठानाम् , उक्त्या प्रीतिमुपदर्शयतां, युक्त्या प्रतिलोमं 25 व्यवहरतां, सुवेलशैलोपकण्ठवासिनां दुष्टसामन्तानां प्रतिक्षेपाय दक्षिणापथयायि नौसैन्य
मादिक्षत् । प्रस्थितस्य च तस्य रिपुविनाशाय, यथाशक्तिकृतशास्त्रपरिचयमधीतनीतिविद्यमभ्यस्तनिरवद्यधनुर्वेदमसिगदाचक्रकुन्तप्रासादिषु प्रहरणविशेषेषु कृतश्रममचिरारूढयौवनमभिषिच्य यौवराज्ये मामेव नायकमकल्पयत् । अर्पितानल्पपदातिसन्यं च पुण्येऽहनि प्रधानैरवनिपतिभिरमात्यैः सामन्तैश्च कृत्वा ससहाय प्राहिणोत् ||
८७) अथाहं प्रातरेव स्नातो निर्वर्तिताभिमतदेवताविशेषपूजः संपूज्य वस्त्राद्यति सर्जनेन द्विजातिलोकं प्रतिकलावलोकितशङकुच्छार्योतिर्गणितविद्भिः साधिते लग्ने सितदुकूलवासाः, सितकुसुमदामग्रथितशेखरः, शरचन्द्रातपेनेव कौमुदीमहोत्सवभ्रमणलग्नेन
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org