________________
तिलकमञ्जरी
स्वभावकश्मलस्थूलबुद्धीनां सर्वात्मनापि प्रयुक्ता बाह्येव वर्णना न प्रविश्य सम्यग्वस्तुतत्त्वमुल्लिखति । अतोऽद्यापि त्वयि प्रजल्पति परितोषः प्रत्ययश्चात्मविषयः कुमारस्य भविष्यति । किं चाश्रुसलिलक्लिन्ननिश्चलचक्षुरधोमुखो वारिबद्ध इव वनकरी लब्धमिथ्याभिशाप इव साधुरकस्मात प्रनष्ठसकलगृहस्वापतेय इव गृहपतिरायतोष्णान् मुहुर्मुहुः सृजसि निःश्वासान् ? अजातप्रेयसीपाणिग्रहो महदुःखमनुभविष्यति महात्मेति कच्चिन्न तं कुमारो- 5 पवर्णितवृत्तान्तयुवानमनुशोचसि ? किमकमिह शोच्यते ? सर्व एवायमेवंप्रकारः संसारः । न जानासि, यदुन दुःखहेतुरनुरागो, विषोपमा विषयोपभोगवाञ्छा, वाञ्छितार्थप्रतिपन्थीन्यधर्मविलसितानि, सर्वतः सुलभविनोद्गमाः काम्यक्रियारम्भाः १ सोऽपि किं करोतु वराको यस्य दुष्करे ताशि संबन्धघटने झटिति दर्शितफला विफलतां नीता देवेन नीतिः ? किं क्रियते ? निसर्गत एव निरङ्कुशः पापकारी करीव व्यालो बलीयान् 10 विधिवद्धोऽपि बुद्धिमद्भिरतिनिबिडेन प्रज्ञालोहनिगडेन निरवग्रहो विचरति । वामचारिण्यत्र मार्गमृग इवाध्वगा नाधिगच्छन्ति वाञ्छितानि व्यापारितसकलसामा अपि फलार्थिनः । तदलमन या स्वचित्तसंतापैकफलया फल्गुचिन्तथा । मनागपि महात्मना न शोचनीयोऽसौ । शोच्यः पुनरसौ पापकर्मा कर्मचण्डालः प्रकृतिदुष्टात्मा विशिष्टाभासः सकलचौरग्रामणीरयाह्य नामा मञ्जीरो, येन मार्जारेणेव मूषिका मिषमुपमृत्य, निभृतमत्र विनिहितम् , 15 "अनुपलक्षिता प्रेक्षकजनेन दर्शयिष्यामि दूरस्थैव यात्रां द्रष्टुमायातम्य यूनस्तस्य" इत्यभिप्रायेण लेखहारिण्या सहकारमूले स्थापितमपहृत्य लेखपत्रकं तादृशस्य दूरारूढसदृशप्रेम्णः प्रतिकूलगुरुजनकृतप्रतिबन्धस्य स्वरसतः कृतानुग्रहेण भगवता मकरकेतनेन संयोज्यमानस्य मिथुनस्य प्रयोजनमन्तरेण विघटनं कृतम् । घटितश्च जीवितावधिनिधवनसखानां सख्यस्य रूपसौभाग्यादिगुणकलापस्य विषयोपभोगानां च सर्वकषो विनाशः । को वास्य मोहोप- 20 हतधिषणस्य दोषः १ कुमारम्यैवायं प्रमादो यदीडशेऽप्यपराधे नैनमन्यायकारिणं करचरणकल्पनेन वा स्वदेशनिर्वासनेन वा रासभसमारोपणेन वान्येन वा धर्मशास्त्रप्रणीतनीतिना निग्रहणेन विनयं ग्राहयति । यदि वा, 'किमनेन क्लिष्टफलयानया नरेन्द्र सेवयैव शासितेन भूयः कदर्थितेन कृपणेन' इति कृपामनुरुद्धयमानो न निष्ठुरं व्यवहरति, ततोऽयमपि तिष्ठतु । जन्मान्तरे नरकातिर्थाभूतः स्वत एव जाल्मः कल्मषस्य सदृशं दशापाकमनु- 25 भविष्यति । तत्तावान्वेष्य मिथुनं मिथः संयोजनीयं भवति यद्विप्रयोगसंभावनया स्वशरीरभूतस्य सुहृदो हृदयदाह ईदृशो युवराजस्य' । इत्युक्तवति तस्मिन् सकलोऽपि परिहासालापरञ्जितः कुमारवर्जमहसदुच्चैः प्रणयी राजलोकः ।।
८५) कुमारोऽपि मन्दस्पन्दिताधरपुटः स्फुरणलोलकपोलदर्पणोदरे दरलब्धावकाशमपसार्य सद्यःस्मितप्रकाशं साभ्यसूय इव 'कमलगुप्त ! किमयमस्थाने विप्लवप्रपश्चः ?' 30 इत्युदीर्य तिर्यग्वलितवदनः सिंहलेन्द्रसुतमवादीत्- 'सखे ! किंनिमित्तं प्रहर्षस्थानेऽप्येवम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org