________________
६२
कविधनपालकृता
८०) तत्र च संनिधाने मकरध्वजायतनस्य नितान्तसुभगे भूविभागे प्रथममेवागत्य परिजनेन सूत्रितम् , अनतिमात्रोच्छ्रितस्य प्रशस्तविस्तारभाजः कूजितानुमीयमान नीलपल्लवप्रभान्धकारावगुण्ठितकलकण्ठकुलस्य लम्बमानबहलफललुम्बिस्तम्बमारदूरावर्जितो दारविटपस्य जलतुपारवर्षिणा सरलितसमदहंससारसारवेण नभस्वता स्वैरमान्दोलितसान्द्र5 शाखामण्डलस्य तरुणसहकारपण्डस्य मध्ये महता बालकदलीवनेन कवचितम् , अचिरविकचानामजिरशिरीषशाखिनामलि विघट्टितर्गल िलशुकशकुनिगलनालनीलैः प्रसूनस्तबकैराकाशजाह्नवीशैवलैरिव शैत्यलोलैरनुमृतपुरोभागं, प्रतिभित्तिलम्बितविचित्रबिससूत्रचामरं, प्रतिद्वारमाबद्धहरिचन्दनप्रवालवन्दनमालं, प्रतिस्तम्भमारोपितहिमशिलाशालभञ्जिकं, प्रतिगवा
क्षमुपनिहितकालागुरुधूपघटिक, सतारागणमिवाङ्गरागमणिभाजनैः, सान्धकारमिव परिमला10 कृष्टमधुकरपटलैः, सज्योत्स्नमिव चीनांशुकवितानः, अतिशिशिरतया च जलकलशैरपि
निबिडकर्पटावगुण्ठितकर्णैरुत्पन्नशिरोवेदनैरिवाधिष्ठितम् , उद्यानहंसैरपि चुसंपुटधृतमृणालसूत्रपिण्डैः प्रावरणपटवानार्थिभिरिवेतस्ततो धावद्भिरध्यासितम् , आक्रीडगिरिभिरपि वारंवारमुच्चरत्तारमयूर केराकारितनिदाघतप्तापरशिलाच्चयैरिवामुक्तसांनिध्यम् , अंहिपैरपि
परस्परसंवलितशाखैरभिलषितनिरन्तरशरीराश्लेषैरिव परीतम् , अरतिविनोदस्थानमिव 15 सागरविप्रयोगे सरय्वाः, दुर्गनिवेशमिव ग्रीष्मनिर्दयावस्कन्देषु शिशिरस्य, दाहज्वरचिकि
त्सागृहमिव दिवसकरमण्डलप्रवेशेषु चन्द्रमसः, शिशिरोपचारमन्दिरमिव वनाग्निसंतापातिवाहनेषु हिमगिरेः, उपरि वर्षतां च प्रावृषेण्ययन्त्रजलधराणामु रनिनादनर्तितमयूरमण्डलेन निपतता समन्तादश्रान्तसंतानेन निरन्तरन्यस्त चन्द्रमणिशिलाप्रणालविगलितेन स्थवीयसा
पाथसां प्रवाहेण प्राकारवलयेनेव स्फाटिकेन प्रान्तेषु कृतपरिक्षेपम , अम्लानमल्लिकामाल्य20 रचितशेखराभिः, श्रवणावलम्बिशैवलवल्लरीहरितायमाननवमधूकपाण्डुगण्डस्थलाभिः कण्ठकन्द
लामुक्तहिमगुलिकाहारहासितोन्नतस्तनकलशाभिरसिदोत्पलनालवलयाधिष्ठितप्रकोष्ठकाण्डाभिः पदे पदे रणितमधुकरजालकिङ्किणीचक्रवालेन बकुलमालामेखलागुणेन परिक्षिप्तघनजघनभा. गाभिर्घनसारसंपर्ककर्कशामोदेन स्पर्शेन्द्रियहारिणा हरिचन्दनरसद्रवेण संपादिताप्रपदीनचर्चा
भिर्जलार्द्रबिससूत्रसंव्यानवाहिनीभिरुद्यानदेवताभिरिव संभूयोपस्थिताभिरभिनवयौवनाभिर्वा25 ररमणीभिरध्यासितविततवातायनम् , अतिविचित्रानेकचित्रशालं जलमण्डपमगच्छत् ।।
८१) प्रविश्य च तत्र कतिपयाप्तसहचरसहायो विभावयन्नितस्ततस्तस्य रचनाविचित्रतामतिचिरं बभ्राम। विरतकौतुकश्च क्वणद्भिरग्रतः श्वासपरिमलावकृष्टरलिभिरभ्यर्थित इवानल्पमेकं कुसुमतल्पमध्यास्त । निषण्णं च तत्र तमुपसेवितुमतीव सेवाकुशलाः
कलाविदो विदितसकलशास्त्रतत्त्वाः कवयो वाग्मिनः काव्यगुणदोषज्ञा विज्ञातविविधपुराणे30 तिहासकथाः कथाख्यायिकानाटकादिप्रबन्धबद्धरतयो रतितत्रपरम्परापरामर्शरसिकमनसः
प्रियदर्शना विदग्धोज्ज्वलवेफ्वपुषः परिहासशीलाः स्वभावपेशलोक्तयः, प्रत्येकमावेदिताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org