SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी कदाचिदसद्दर्शनोक्तयुक्तिनिराकरणेन कदाचिन्नीतिशास्त्रनिबन्धपाठेन कदाचित् कला विषयविचारकेलिकलहेन कदाचिद्रसाभिनयभावप्रपञ्चोपवर्णनेन कदाचिद् वेणुवीणामृदङ्गादिवाद्यविनोदेन कदाचिञ्चिरन्तनकवीन्द्र काव्यमुद्राभ्यसनेन भावुकैः सुहृद्भिश्च सह रममाणयोः, एकत्र कल्पिताशनस्नानासनशयनयोः, सदृशवेषालङ्कारधारिणोः, शाक्य शिष्य योरिवानुपजातविप्रयोगदुःखयोः, सुखमया इव, धृतिमया इव, अमृतमया इव, प्रीतिमया इवातिचक्रमुः 5 कतिपयेऽपि दिवसाः । यथोत्तरं प्रकटितप्रसादेन नृपतिना दृश्यमानोऽपि सुतनिर्विशेषमीषदपि समरकेतुर्नोत्सेकमगमत् । अपहाय भुजवीर्यमन्त्रकृत हरिवाहनस्य सर्वानपि गुणान् आत्मगुणगणेन । प्रगुणितश्च परमया भक्त्या प्रीत्या च निःसामान्यया राजानमिव महर्निश सेवत | हरिवाहनोऽपि तद्गुणानुरञ्जितमनाः स्वप्नदृष्टेऽपि समरकेतौ, विपक्षजनपद इव जिगीषुः, परां मुदमवापत् ॥ ६१ ७८) एकदा च स ग्रीष्मसमये प्रातरेवोत्थाय निर्वर्तितस्नानभोजनादिविधिरुदधिजलविलुलितवासुकिमुक्तनिर्मोक निर्मलं परिधाय वासोयुगलमुन्निद्रमहिका मुकुलरचितशेखरो मदान्धमधुकरध्वानवाचारचल इव मैनाकनामा निर्झरौघैः सशिखरावलम्बिभिधू लीकदम्बप्रालम्बैरभिनवैरुद्भासमानः, शिरीषतरुकुसुमकल्पितकर्णपूरः, कर्पूरपरिमलमुचा चन्दनद्रवेण विहितसर्वाङ्गीणाङ्गरागः, तत्कालोपनीतरत्नोपलशकलशीतलममलमुक्ताफलप्रायमल्पमुद्वहन् 15 भूषणकलापम्, अच्छकान्तिदर्पणप्रतिबिम्बितैः प्रीतिनिश्चलचक्षुषो जनस्य सर्वतः सहस्रसंख्यैर्विलोचनैः शबलितगात्रयष्टिः, ऐरावताधिरूढः सहस्राक्ष इव साक्षादुपलक्ष्यमाणः, निक्षिप्तनिजवेषानुरूपनिःशेषनेपथ्यस्य तत्क्षणगृहीतशितसृणेर्निपादितां प्रतिपद्य सिन्धुरस्कन्धमध्यासितस्य समरकेतोरधिस्कन्धमर्पितोभयबाहुपाशः, पश्चिमासनाध्यासिना ताम्बूलदाय केन प्रतिवे लमुद्भूयमानकनकदण्डडामरैकचामरः, तुलितगत्वरतमालतरुषण्डेन मायूरातपत्रमण्डलेन 20 जयन्त इव संक्रन्दनानुचरीकृतेन बालजलधरव्यूहेनान्धकारिताग्रिमभूमिरप्रेसरेण सरयूतटासङ्ग मत्तकोकिलं नाम बाह्योद्यानमगच्छत् ॥ Jain Education International 10 ७९) प्रविश्य च तत्र परिमिताप्तराजपुत्रपरिवृत इतस्ततस्तत्काल बद्वमुग्धकुड्मलानि नवपरिमलाकृष्टवाचालषट्पदकुलानि धूलीकदम्ब गहनानि, कादम्बकुलनिषेवितोद्दण्डकमलिनीपखण्डाश्च तटपाटलाकुसुमवासिताम्भसः क्रीडादीर्घिकाः, निदाघतप्ताध्वगरचित - 25 पवत पांच सलिलपरिपूरितालवा लवलयित मध्यान् माधवीमण्डपान्, वातायनासीनवनिताकरप्रचेदतरुफलांश्च सुधापङ्कधवलान् प्रासादकानवलोकयन्नविरलफलितजलजम्बूनि कुरुम्बमुद्गतस्तोककुसुम स्तबककेतकी स्तम्बमुच्चच्चरचीत्कार मुखराणां प्रेङ्खतामनवरतमुद्घाटकानां घूर्णमानैर्नभसि नभस्वदाधट्टन जर्जरैर्जलतुषारजालकैर्जडीकृतनिदाघकर्क. शार्क करवितानमा पानकमृदङ्गरवजनितञ्शृङ्गारैर्नगरी जनैर्वन शिखण्डिभिश्च युगपदारव्यताण्डवैर्गण्डितलता मण्डपमदूरव- 30 हदगाधनीरं सरय्वास्तीरपरिसरमुपासन्त् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy