SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी कुमारशब्दविप्रलब्धेन कृतमुखालोकं, हराट्टहासद्युतिहासिना दूरमुल्लसितेन हारप्रभावलयेन वक्षःस्थलनिवासिन्याः श्रियः क्षीरोदमिव दर्शयन्तम् , अतिबहलकेयूरपद्मरागांशुरञ्जितैश्चिरप्ररूढेरपि सरसैरिवारिशस्त्रप्रहारैः स्थपुटितोरःस्थलं , तरुणतामरसताघ्रतलस्य सविलासं प्रेवतः पाणियुगलस्य विसर्पन्तीभिर्धवलनखदीधितिभिरम्बुधाराभिरिव सावष्टम्भचरणपातभरपीडितामुक्षन्तं क्षिति, क्षितिपतिः समरकेतुमद्राक्षीत् । दृष्ट्वा च संमुखचलितवदनो 5 वारंवारमादरप्रणिहितप्रसादादृष्टिरासन्नसर्पिणा महाप्रतीहारेण कारितप्रणाममादरप्रणतिलग्नकुट्टिमोपहारकुसुमकिञ्जल्कसारीकृतशिरोरुहम् “ए हि" इति दूरादेवाह्वयत् । उपमृत्य चरणान्तिके भूयः कृतप्रणामं च प्रेम्णातिदूरं प्रसारिताभ्यां भुजाभ्यामाकृष्याङ्कमारोपयत् ॥ ७५) आश्लिष्ठमुक्तं च तं विनयादनाहतससंभ्रमाधिकृतढौकितविकटवेत्रासनमासन्नोपविष्टमुन्नमितपक्ष्मणा निश्चलनिबद्धलक्ष्येण चक्षुषा निरीक्ष्य साचीकृतशिरोधरः 10 सुचिरमीषस्मितः समभाषत--'वत्स ! स्वागतं ते । साधुकृत यत्रागतोऽसि । अनेन तव निसर्गसुन्दरेण दृष्टमात्रेण देहाकारेण पुरुषकारेणेव श्रुतेन श्रोत्रमानन्दित मे किमपि नेत्रयुग्भम् । धन्यस्त्वमेको जगति यस्मादुपजातमात्मनः पराजय विजयमिव सभासु शंसति प्रीतिविकासिताक्षो विपक्षलोकः । तोकमुपजनयता भवन्तमस्तोकसंचितसुकृतसंभारेण धारितो धुरि समस्तानां पुत्रिणामात्मा महात्मना सिंहलेश्वरेण । तेजस्विसंगमेषु स्फुर- 15 दधिकोजसा सहजमार्दवगुणोपेतेन स्थिरप्रकृतिना त्वयैकेन भूपित पुरुषरत्नेन परुषतरलेबहुभिरपि पाषाणरत्नैः परिष्कृताय प्रायो न मे गृहं स्पृहयत्यद्य सिंहलद्वीपाय । सर्वथा कृतार्थोऽहम् । अद्य फलितो मे दक्षिणापथविजयः । श्लाघनीयतां गतमिदं राज्यमद्य । अधिगतपरिपूर्णशोभेयमुपजाता सभा। शिरश्छेदसाहसदर्शनादधिकपरितुष्ट या दिव्याङ्गुलीयकार्पणव्यपदेशेन देशान्तरादानीय दत्तोऽसि मे द्वितीयस्त्वमात्मजो राजलक्ष्म्याः । 20 सामान्यममुना कुमारेण सह तवेदं राज्यमास्स्व यहच्छया भावितभूरिनिवृतिः । मनसि मा स्म संस्थाः यथाहमानीतः परैरिति । न कश्चिदप्यत्र परः। सर्वोऽप्येष तव पर्वतस्येव मैनाकस्य पर्यन्तवर्ती सपक्षो भूभृतां वर्गः । स्वर्गोद्यानवनलेखाचारुरेकैव दूरे तिलकतालचम्पकैलालवङ्गपुन्नागबहुला दक्षिणार्णवोपकण्ठवनराजिः । अपरस्तु सर्वः सनीडः क्रीडोपकरणग्रामः । सर्वथा कुरु स्थिरमवस्थानाय चेतः। यच्चिन्तयसि तत्कृत्स्नमपि 25 तवाचिरेण संपत्स्यते समीहितमिह' । इत्युक्त्वान्यतो विवर्तितमुखः पादपीठान्तिकोपविष्टमनवरतसंचारितस्नेहार्द्रलोचन समरकेतुवदने हरिवाहनमवादीत्-'वत्स ! एष समरकेतुर्गुणैः समधिकं समं चात्मबन्धुवर्ग प्रधानपुरुषमपश्यता मया तवैव सहचरः परिकल्पितः। अस्य कल्पायुषा दर्पणस्येव सद्वृत्तस्य कलङ्करहितात्मनो मत्पुरस्कृतस्य सर्वकालमभिमुखेन भवितव्यं, सुविदितदण्डनीतेः सौविदल्लस्येव निजपरिग्रहः सततमायत्ततां 30 नेयो, भोगसुखसाधनैकहेतोः सुकृतकर्मण इव दानादिक्रियाभिः कर्तव्यमजस्रमुपबृहणं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy