________________
कविधनपालकृता प्रहारदानाय दूरोक्षिप्ता दक्षिणपाणयः पादातस्य । अर्धावकृष्टस्रस्तकामुकनिररताश्चार्धपथे एवाधोमुखीबभूवुरप्राप्तशरव्यास्त्रपयेव सायका धनुष्मताम् । दृष्टसुरवधूविभ्रमाविर्भूतमदनार्तानामिव प्रावर्तन्त जम्भिका मुखेषु रथारोहाणाम् । स्वप्नदृष्टाचिरविमुक्तोद्वाष्पनिज
जायाजनितदुःखानामिव प्रसस्रुरायतानि श्वसितान्यश्ववाराणाम् । श्रवणप्रविष्टारातिसिंह5 नादमुहूर्तविस्फारिताप्यघटतामर्षलोहितायमानजडपुटा दृष्टिः सामन्तानाम् । अव्यापृतवामकरतलालीनरश्मिपाशाश्चो कृतप्राजनावष्टम्भेन विसंस्थुलावयवास्तस्थुः सारथयः ।।
६७) ' एवं च तेनातर्कितोपतेनाप्रतिविधेयेन देवेनेव लुप्तपुरुषकारेण, जरा गमेनेव मन्दीकृताखिलेन्द्रियशक्तिना, महापुरुषेणेव गोपायितसमस्तात्मगुणेनाऽनायु:
परिक्षयेण मृत्युनाऽसर्पदंशेन विधवेगेनाऽनभिघातजेन मूर्छान्धकारेणाऽदोषसंक्षोभजन्मना 10 संनिपातेनाऽनुन्मीलिततारकेण तमसा, महानिद्रावेगेन युगपदभिभूयमाने वैरिसैन्ये, स
वीरवर्गाग्रेसरो राजकुमारो रोष इष्टाधरोष्ठमुज्झितरथपृष्ठमुद् गृर्णकृपाणममिमुखमतिरंहसा समापतन्तं सेनापतिमवलोक्य तद्वधाय धनुषि निवेशितमसितलोलदीधितिजटालफल धारमरातिरुधिर पानतृष्णया प्रसारितजिह्वासहस्रमिव सद्य एव समहृत संहृतानेकप्रति
पक्षप्राण वाणम् । उत्सृष्टचापयष्टिश्च तत्क्षणं क्षात्रसमरनीतिप्रियतया पृथक्कृत्य परिवारतः 15 कृपाणमात्मानं च वेगाववतरन्निद्रावेगविगलितपरिस्पन्दः स्यन्दनोत्सङ्गमगमत् ।।
६८) 'अत्रान्तरे लब्धरोषनिर्यातनावसराणि "हत हत, उपसर्पतोपसर्पत, गृहीत गृहीत" इत्यनवरतकृतकोलाहलानि बद्धवेगद्विरदपृष्ठसारिदोलायमानस्खलनसायास प्रासपूलानि चलितरथचक्रचीत्कारच क्रितशाकिनीचक्रवालार्धावलोकितान्युद्गुणकृपाणपादात
पदपातकम्पितधराण्यधावन्त सर्वतोऽस्मत्सैन्यकानि । सेनाधिपस्तु तस्य महात्मनस्त्रि20 भुवनाभिभाविना भुजवीर्येण निर्व्याजमावर्जितमनास्तानि तथाविधप्रकटितसंरम्भाणि सर्वतः
प्रधावितान्यवलोक्य संभ्रमोक्षिप्तबाहुयुगलो गद्गदिकागृह्यमाणगलनिगला पर्याप्ताक्षर " रे रे स देवस्योत्तरकोशलेश्वरस्य पादपङ्कजेभ्यः शपते, योऽस्मै कुप्यति" इति स्वशक्त्या व्याहरन् पुनः पुनरादिष्टसूतस त्वरप्रवर्तितरथ्येन रथेन तं प्रदेशमागच्छत् । अद्राक्षीच्च तं
समासन्नदीपिकालोकप्रकाशितमासक्तसान्द्रसमररेणुधूसराभिरामवपुषम् , औषधीनाथमिव 25 पार्वणमस्तपर्वतप्रस्थे पृथुनि रथपृष्ठे पर्यस्तम् , आसादितविजयरिपुदर्शनपरिजिहीर्षयेव
निमिषितेक्षणारविन्दम् , आजिविपन्नसुभटजीवितसंजिधृक्षायातयमदर्शनागतया यमुनयेवाबद्धविकटतरङ्गया भृकुटयाऽन्धकारितललाटभित्तिम् , उपरि रिपुशिलीमुखासारेणाधस्ताच्च रणरभसरोमाञ्चजालकेन जर्जरितमुल्लसितमिव मूर्छान्धकारमुन्निद्रतापिच्छनीलमस्थूल
कालायसकव व मुरःस्थलेनोद्वहन्तम् , उत्सृष्टचापयष्टिना वामेन इक्षिणेन च स्फुरितदीर्घ 30 नखकिरणेन तत्क्षणभ्रष्टकरवालान्वेषिणेव पाणिना विराजमानमू, उपान्तकेतुस्तम्भविन्य
स्तदेहभारैश्च निद्रादुरभुग्नकण्ठनालगत्मयोथैः परिवृतं प्रसुप्तसरःकुमुदवनमध्यवर्तिनमिव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org