SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी सुभटशस्त्रपात्तरणितेन प्रणम्यमानमिव भूमिनिक्षिप्तपूर्वेभिः कबन्धैः, अर्यमानमिव निपतदातपत्रकुसुमैः स्यन्दनैः, क्षिप्यमाणलाजमिवोट लत्कुम्भ मुक्ताफलाभिः करिघटाभिः, अभिषिच्यमानमिव मुक्तासृष्टिमः प्रहारवणैः, दी मानचक्राभिघातमिव विलोलमणिकुण्डलैः क्ष्मापाल मुण्डैः, प्रबलपरिवारपरिगतमिव शरच्छेदैः, मूकं मांसभेदे, मन्द मेदसि, मुखरमस्थिषु, मन्थर स्नायु ग्रन्थिष्व संख्यमसृजन्मार्गणातम् । अतिवेगव्यापृतोऽस्य तत्र 5 क्षणे प्रोत इव तूणीमुखेपु, लिखित इव मौर्याम्, उत्कीर्ण इव पुङ्खेषु, अवर्तसित इव श्रवणान्ते, तुल्यकाल लक्ष्यत वामेतरः पाणिः । अविरलशरासारत्रासिता हंसीव मेघागमे पल्वलमनवलोकिताश्रयवि संस्थुला सैन्यपतिवक्षःस्थलममुञ्चद् राजलक्ष्मीः । उद्भ्रान्तहृदया च क्षगं बाहुशिरसि, क्षणं धनुषि, क्षण कृपाणवाराम्भसि क्षणमातपत्रे, क्षण पालिध्वजेषु, क्षण चामरेष्वकुरुत स्थितिम् । अहं तु तां तस्य विपद्मप्रतिविधेया- 10 मुपनतामवलोक्य किंकर्तव्यतामूढः स्तम्भित इव मुहूर्तमतिष्ठम् । प्रयत्नवशाच्च प्रत्यानीतधैर्य इतस्ततश्च धावता हृदयेन तस्य प्राणपरिरक्षणोपाचान् मृगयमाणः सततमासन्नवर्त्यपि व्याकुलतया मुहूर्तमपसृतं स्मृतेर्झगिति तत्पुरा परमेश्वरेण प्रहितमङ्गुलीयकं बालारुणमस्म रम् । उच्छ्वसितहृदयश्च तदभिनन्द्य बहुप्रकारमादरकृतप्रणामः पाणिना दक्षिणेोदक्षिणम् । आक्षेपस्वलद्वाणिश्च तत्क्षणमरातिबाणोन्मथितकेतुच्छत्रकार्मुक सेनान्यमुच्चैस्तरेण स्वरेणा - 15 वोचम् - " दण्डाधिप ! कृतं तावत् परायुधपरिग्रहेण गृहाण बालारुणाभिधानमिदममोघं प्रहरणम्, अनेन परिगृहीतभुजदण्डशक्तिर्विधेहि निरवग्रहप्रसरस्य विद्विषः प्रतापखण्डनम्, अकाण्ड एव निर्व्याजपौरूपतया मा स्म विस्मरः स्वामिकार्यम् ।" असौ तु सास्य इव तन्मदीयवचनमवधार्यं कृतावधीरणो, रणरसोच्छ्वसित "रे रे दुरात्मन् ! दुर्गृहीतधनुर्विद्यामदाध्मात ! द्रविडधम ! वधान क्षणमात्रग्रतोऽवस्थानम्, अस्थान एव 20 किं दृप्यसि, पश्य ममापि संप्रति शस्त्रविद्याकौशलम्" इत्युदीर्य निर्यत्पुलकमसिलताग्रहणाय दक्षिणं प्रसारितवान् बाहुम् । अविधावेशविस्मृतात्मनश्च तस्योल्लसितकोपसाटोपकम्पिताङ्गुलौ करामागे गृहीत्वाङ्गुलीमेकां तदहम गुलीयकमतिष्ठिपम् । अधिष्ठितश्च स तदीयच्छायया तत्क्षणमेव दिमागदन्तमुशल इव वज्रप्रतिमया, महाहिभोग इव मणिप्रभया, समुद्रोमिरिव वाडवाचिपा, कामप्यभिरामतामवृष्यतां च पर्यपुष्यत् ॥ ५३ Jain Education International ६६) ' अथ तस्य संनिहितदपिकापण्डकरण्डताडिताः कोपेनेव प्रजज्वलुः प्राज्यतेजसो मणयः, प्रचिक्षिपुत्र दिङ्मुखेषु क्षेपीयः कटाक्षानिव दीर्घारुणानंशून् । तैश्च प्रभापीतचन्द्रातपैः समन्ततः परामृष्टमभिनवार्क किरणस्पृष्टमिव कुमुदकाननं सद्य एव निद्रया प्रत्यपद्यत प्रतिपक्षसैन्यम् । उद्दामदानपङ्कयानी नोद्धर्तुमकुशानि शेकुरनेकप कपोलकूटेभ्यो निषादिनः । सुराङ्गनादर्शनोपारूढमदेव सद्योऽमुकुलायत दृष्टिः सुभदानाम् | 30 कृतकचग्रहकालङ्कृताकृष्यमाणानीव शनैः शनैरवनेमुः परिशिथिलकन्धरासंधीनि शिरांसि योधानाम् । द्विपटितमुष्टिबन्धविगलितासयश्च कृपाणिका ग्रहणस्पृहयेव निपेतुर्जघनपार्श्वेषु For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy