SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ कविधनपालकृता दूरोल्लसितेन श्यामलितदशदिशा कुटिल विषमेण भ्रुकुटिवलिलेखात्रयेण धूमोगमेनेवानुमीयमान हृदयप्रदीप्तमन्युरभिमन्युरिव चक्रव्यूहस्य सेनापतिपुरोभागपुञ्जितस्य राजसमूहस्य संचरदनेकरथसहस्रदुष्प्रवेशमविशन्मध्यम् । अनुवर्तितक्षत्रधर्महाबलैनरपतिभिरेकैकशोऽभिमुखीभवद्भिः क्षणमात्रमन्थरितरथगतिः “वनायुधो वनायुध” इति सगर्व व्याहरन् वाहिनीभर्तृ 5 रन्तिकमधिगच्छत् ।। ६४) 'सेनाधिपोऽपि गम्भीरमधुरेण तेन व्याहृतध्वनिना प्रथमजलधरस्तनितेनेव विन्ध्यः सद्य एवोद्भिन्नसरसरोमाञ्चकन्दलः, कोपविस्फारितपुटेन कवलयन्निव तारकोदरप्रतिबिम्बित' सप्रगल्भचलितपक्ष्मणा लोचनद्वयेन सतुरङ्गरथमातङ्गपार्थिवं प्रतिपक्षम् , "इत इतः पश्य माम्” इति व्याहरन्नेव वाहितरथः, समेत्य तस्येक्षणपथे समस्थित । 10 वारंवारमन्योऽन्यकृततर्जनयोश्च तयोराकान्ताकृष्टमुक्तास्तुल्यकालमास्वादितगलामिषा विसारिणो, लङ्घितदशदिशो दूराध्वगा, राजकार्योपयोगिनस्तीक्ष्णाः, परितोधितसुराङ्गनाः सुपर्वाणो, महाजवा वाजिनश्चापलतोषिताः क्षितिपालदारका, विषमाश्वमण्डलभेदिनः प्राप्तमोक्षा, दत्तदीर्धनिद्रा महासंनिपाताः, स्वेच्छाविहारिणः खेचरा, ऋजुस्वभावा लब्ध शुद्धयः, क्वचिद् वातिका इव सूतमारणोद्यताः, क्वचिद् राजाध्यक्षा इवाकृष्टसुभटग्राम15 कङ्कटाः, क्वचिद् वलयकारा इव कल्पितकरिविषाणाः क्वचित् कितवा इव विलिखिताष्टा पदसारफलकाः, क्वचित् पतङ्गा इव पक्षपवनान्दोलितदीपिकापण्डार्चिषोऽभिलषितगजदाना मार्गणतामुन्मिषितनीलत्विषो बाणतां द्विधाकृतोदण्डपुण्डरीकाः कादम्बाभिधामारवमुखरिताशामुखाः शिलीमुखाभिख्यां मुख्यामुद्वहन्तः, सायकाः प्रसस्रः। अतिमहततया च तेषामन्तरितचक्षुरिन्द्रियाः पुरोवर्तिनामपि वीराणां रणमतीन्द्रियं नाद्राक्षुरमरपङ्क्तयः, । 20 समीपेऽपि त्रिदशतां सुभटजनमुपागतं न स्वयानमारोपयितुमपारयन्नप्सरसः । समासन्न. स्यापि न कबन्धस्य स्कन्धरुधिरधारया कपालान्यपूरयन् परेतयुवतयः । निरुद्धचन्द्रालोकबद्धान्धकारेषु च रुधिरनिम्नगातीरेषु प्ररूढतालतरुवनशङ्कया निर्विशङ्कमध्यासितोलवेतालमण्डलमध्याभिरमराङ्गनाभिररम्यन्त समरासादिताः पतयः ।। " मुहूर्ताच्च प्रीतहृदयः स नरपतिकुमारः सेनाधिपतिमवदत् -'वज्रायुध ! तवानेन सकललोकविस्मयकारिणा 25 भुजबलेन धनुरिवावर्जितं मम निसर्गस्तब्धमपि हृदयम् । आशैशवादपारपौरुपमदोन्माद परवशस्य मे शतशः संगरेषु संवृत्तः प्रवेशः । जातश्च सहस्रसंख्यैर्धन्विभिः सह समागमः । न तु जनितमेवंविध केनाप्यपरेण कौतुकम् । अतिवाहितश्च पुरः करकलितकामुकेण काल एतावान् । तदेतर्हि कृत्वा मनः सविशेषसावधान', प्रहर सर्वात्मना। विधेहि न स्वशक्त्या, महात्मन् ! आत्मनो रक्षाम् । एष मुच्यसे भुजबलाभिमानभङ्गादवलम्बिता30 समक्षमस्य समक्षमस्य सामन्तलोकस्य मर्त्यलोकावाससौख्येन' इति व्याहरन्नेव वेगा कृष्टचापयष्टिरुत्पातजलधर इव जलधारासारमन्धकारिताष्टदिगन्तरालसूत्रिताकालप्रदोषम् , अनवरतमुत्पतदिनभसि भीषणैानिनादैररिशिरोभिश्च व्याहृतविसर्गम् , स्तूयमानमिव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy