________________
तिलकमञ्जरी
प्रसृतरभसोत्तालगजदानवारिरातत्रिदशदारिकान्विष्यमाणरमणसार्थो, निपीतनरवशाविस्वरविसारिशिवाफेत्कारडामरः, सतारकावर्ष इव वेतालदृष्टिभिः, सोल्कापात इव निशितप्रासवृष्टिभिः सनिर्घातपात इव गदाग्रहाः, ससंवर्तकाम्बुददुर्दिन इव करिशीकरासारैः, सोत्पातरविमण्डल इव कीलालितकरालचक्रमुक्तिभिः, सवैद्युतस्फूर्ज इव जवापतज्ज्वलितशक्तिभिः, सखण्डपरशुताण्डव इव प्रचण्डानिलधूतध्वजसहस्रैः, सकालाग्निधूम इव प्रकुपित. 5 सुभटभ्रकुटीतमिरजायत महाप्रलयसंनिभः समरसंघट्टः । सर्वतश्च गात्रसंघट्टरणितघण्टानामरिद्विपावलोकनक्रोधधावितानामिभपतीनां बृहितेन, प्रतिबलाश्वदर्शनक्षुभितानां च वाजिनां हृषितेन, हर्षोत्तालसूतताडिततुरङ्गबद्धरंहसां च स्यन्दनानां चीत्कृतेन, सकोपधानुष्कनिर्दयाच्छोटितज्यानां च चापयष्टीनां टङ्क्तेन, खरक्षुरप्रदलितदण्डानां च पर्यस्यतां रथकेतनानां कटुत्कारेण, निष्ठुरधनुर्यन्त्रनिष्ठयतानां च निर्गच्छतां नाराचानां सूत्कारेण, वेगो- 10 ह्यमानविवशवेतालकोलाहलघनेन च रुधिरापगानां घूत्कारेण, प्रतिरसितसंभृतेन समरभेरीणां भाङ्कारेण, निर्भराध्मातसकलदिक्चक्रवालं साक्रन्दमिव साट्टहासमिव सास्फोटनरवमिव ब्रह्माण्डमभवत् । अनन्तर च सेनाभराक्रान्तमेदानीमूर्छान्धकाराकृतिः कवलयितुमिव सशैलद्वीपकानन त्रिभुवनमुल्ललास, लासकस्तरुणजलधरपटलशङ्कया विमुक्तकलकेकाविलापानां वनकलापिनाम् , आब्रह्मलोकमेणाङ्कमण्डलाकाण्डसैहिकेयो रजःसंघातः । प्रतिक्षणमुद्भु- 15 रैर्गुणध्वनिभिरज्ञायत धनुष्मतामिषुव्यापारः । शस्त्रशिखिकणोद्योतेन पदमदीयत प्रचलितः प्रत्यरिपदातिभिः । अविदितात्मीयपरविभागेन व्यलम्ब्यत मुहूर्तमुद्भूर्णहेतिनापि सुभटलोकेन । प्रभूतपिशिताभ्यवहारजनिततीव्रोदन्येन कर्दमप्रायमपीयत क्षतजापगाम्बु कौणपगणेन ॥
६३) 'एवं च भीषणाबद्धतुमुले कुतूहलोत्तालकालदूताकुलितदशदिशि क्रव्या- ... दकुलविलुप्यमानवीरलोके, नृत्यत्परेतपरिषदि कृतान्तमहोत्सव इव निर्भर प्रवृत्ते समरसंरम्भे, 20 क्षीयमाणेषु क्षितिपतिषु, निपतत्सु पादातेषु, सीदत्सु सादिषु, व्रजत्सु विधुरतामाधोरणेषु, प्रहारविकलकायेष्वितस्ततः परिस्खलत्सु शून्यासनेषु सप्तिषु, स्फुरत्कृपाणचक्रत्रिशूलकार्मुकप्रायपहरणदुरालोकायामनेकशवमुण्डमालामालितवपुषि चण्डिकायामिव रूपपरिवर्तन कृतसंनिधावुपलक्ष्यमाणायां क्षितौ अमर्षमय इव क्रौर्यमय इव वैरमय इव व्याजमय इव .. हिंसामय इव विभाव्यमाने जगति, त्रिभागशेषस्थितौ त्रियामायाम् , अमर्षगतमरणशङ्का- 25 निरङ्कुशप्रवृत्तिभिर्वीरलोकैरहंप्रथमिकया प्रार्थ्यमानयशसि पर्यायेण जयपराजयावासादयति सैन्यद्वये, सहसैव शत्रुसैन्यादसह्यरभसो मृगयुमार्गणप्रहारताडित इव मृगारातिः, आकर्णितदुर्नरेन्द्रमन्त्रपद इव महाहिः आयातविपक्षवारणमदगन्ध इव वनकरेणुः, अनिललोलपताका; पटसहस्रमरिकुलप्रलयाय मुक्तशिखमिवोत्खातशस्त्रपुरुषकृतपरिक्षेप रथमारूढः, प्रौढकालायस-:: कवचगूढकायैः पुनरुततर्जितसारथिभिरभङ्गुरभुजबलाभिमानैरनतिभूरिभिरवनिपतिपुत्रैरनु. 30 गम्यमान एको नृपकुमारः कुमारसदृशाकृतिरतिरंहसा निरगमत् । निर्दयास्फालितधनुश्वाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org