________________
तिलकमरी
५८) 'एकदा तु, वसन्तसमये प्राप्ते च, समागतायामनङ्गोत्सवतिथावतीते निशीथिन्याः प्रथमयामे राजद्वारमागतासु द्वितीययामगजघटासु, रसिते प्रमोदावसरतूर्ये, श्रुतावसरतूर्यरवसंभ्रान्तेषु दत्तपर्याणानारुह्योपवाह्यवाजिनो राजद्वारमतिरंहसा प्रधावितेषु । परिवर्द्धकेपु. यथायाम निरूपितायामिकेषु निजनिजकर्मशालाभ्यो निर्गतेषु चिरनिरोधखिन्नतनुपु नियोगिषु, पुरःसरद्वित्रदीपिकेपु बजत्सु निजशिबिराणि तारतरकरेणुघटाक्वणितसूचि. 5 तेषु सामन्तेपु, आपणिकसंवृतसायंतनपण्यसंततिपु विकटायमानेषु विपणिवीथीचतुष्पथेषु.. शिबिरपर्यन्त बद्धगुल्मकेपु स्थित्वा स्थित्वा युगपदारटत्सु बाह्यतन्त्रपदातिवृन्देषु, विश्रान्तजनरवनिरङ्कुशप्रसरेवितम्ततः श्रूयमाणेष्वापानकमृदङ्गध्वनिपु, शयनमन्दिराङ्गणनिहितशय्यानिपण्णे संनिहितकतिपयप्रणयिनि प्रारब्धमदनजागरस्य जायाजनस्य गीतकान्याकर्णयति परितः परित्यक्तविग्रहकथानिरवग्रहमनसि सेनाधिपे, सहसैव संत्रासितकटकलोकस्खासतरल- 10 मन्दुरातुरङ्गश्रेणिश्रुतः, सत्वरापमृतपृष्ठप्रसुप्ताधोरणानामपहायापहाय पांशुतल्पान्युत्तिष्ठताभिभपतीनां चरणशृङ्खलारणितजरटेन जर्जरीकृतः कण्ठगर्जितेन, गजगर्जितारवश्रवणकुपितानां पञ्जरकेसरिणां सरभसकराम्फालितशलाकाप्रतिनादहितेन बहलीकृतः पूत्कृतेन, प्रतिसैन्यमाहतानां प्रसृततारतरकाहलाक्वणितकाहलेन सन्नाहपटहानामुन्नादितः कोलाहलेन, ससंभ्रमोथितानां तत इतः प्रधावताम् “आहरत रथवरूथानि, कल्पयत मातङ्गान् ,आरोहत तुरङ्गान् , 15 अङ्गीकुरुत तनुत्राणि, गृह्णीत शस्त्राणि” इत्यनवरतमाघोषतामधिकारिपुरुषाणां श्रवणपरुषेण पोषितस्तारतुमुलेन व्याहतेन, निर्भरभरितसकलत्रिभुवनोदरो महानुदभूत् कलकलारवः ॥'..
५९) 'तं च प्रलयकालजृम्भितमहाभैरवाहासभैरवं रवमाकर्ण्यसमुपजातरिपुबलावस्कन्दपातशङ्को नायकस्तत्काललब्धावसरेण भृत्येनेव रणरसेन बद्धविकटरोमाञ्चकवचेन प्रेर्यमाणो, बिजृम्भिनातिभीषणभृकुटिसंकटायमानललाटभित्तिरमर्षदष्टदशनच्छदो दक्षिणकरेणा- 20 च्छिद्य परिचारकहरतादुत्पाततडिल्लतानुकारिणं कृपाणम् , इतरपाणिना प्रेतयन् विचित्ररत्नखण्डखचितमन्तककितवकौतुकाष्टापदं प्रकोष्ठविनिविष्टमष्टापदफलकम् , अतिबहलेन । तिर्यग्विसर्पता खड्गप्रभापटलेन मलिनितमाबद्धविकटकालयसकङ्कटकमिवोर कपाटमुद्वहन् , रभसदूरपातिभिरभिमुखप्रकटितासियट्रिमात्मच्छायामभिहन्तुमिव पुरःप्रवर्तितः पादरा कम्पितक्षितिपराक्षेपदूगेच्छलितहारविप्रकीर्णन नीहारनिकरस्पर्द्धिना किरणविसरेण संवर्द्धय- 25. निवारातिसैन्यसंदर्शनाय चन्द्रातपमनुमार्गप्रधावितेन संभ्रमस्खलितगतिनावीरलोकेन गमनवेगानिलाकृष्टेनेवानुसृतगतिः, अतिजवेन राजकुलान्निरगच्छत् । द्वारदेशावस्थितश्चाग्रतो दत्त. दृष्टिरतिवेगादापतन्तौ, अतिशयच्छेकपाटहिकताडितपटहनादपटुतरेण दूरादेव खुरपुटध्वनिना प्रकटीकृतावुर कपाटघटितातनुतनुत्राणौ, तत्क्षणविपाटितकाषायपटार्द्धान्तपीडितोत्तमाङ्गो, गृहीतनिशितप्रासमुष्टिना वामेन किञ्चिदुक्षिप्तवल्गौ, दक्षिणेन च करतलेन त्रासतरलि- 30 ताक्षतुरगतिर्यगवलोकितोतक्षेपां कशामुद्वहन्तौ, अश्वदर्शनसरभसप्रधावितैः शिबिरवेसरैरिव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org