________________
४८
कविधनपालकृता तृणसंबाधग्रामसीनि जनितविजिगीषुपार्थिवजनोत्साहे शरत्समये, सेनापतिरर्थशास्त्रपरामर्श पूतमतिभिरमात्यैः सह कृतकार्यवस्तुनिर्णयः प्रशस्तेऽहनि समस्तबलपरिवृतश्चरणतलमृदित भुजबलावलिपारिभूपालशिरःशेखरं कुसुमशेखरनामानमवनिपालमुन्मूलयितुकामः कुण्डिनपुरात् काञ्चिमण्डालाभिमुखमचलत् । क्रमेण चाबद्धढकक्षाभिराटोपकम्पमानविततकेतुबन राजिभिरभ्यर्थनापदेशस्तम्भितोदयमगस्त्यमुनिमभियोमुच्चलिताभिविन्ध्यशिखरावलीभिरिव 5 करिघटाभिरन्धकारितैराज्ञाकृष्टानां दुष्टसामन्तानामनीकैरापूर्यमाणकटकविनिवेशः काञ्चिदेशमविशत् ॥
५६) 'कुसुमशेखरोऽपि किञ्चित् सदर्पतया तमुपसर्पितुमनीहमानो हीनबतलतया च योधयितुमपारयन् कालातिवाहनभत्र प्राप्तकालमिति चेतसा निश्चित्य संवर्गितसमग्रोपकरणकलापः शास्त्रमार्गानुसारेण दुर्गसंस्कारमनवरतमन्वतिष्ठत् । अन्वहं च दह्यमानासन्नग्राम- 10 कक्षामुपहतबहिर्जलाशयामन्तःप्रवेशितप्रभूतधान्यामुपसंगृहीतप्रचुरयवसेन्धनामुदक्तजीर्णवापीकूपपङ्कां निष्कासितनिःशेपासारलोकां विपमितप्राकारमूलसमभूतलामवतारमार्गदुर्गमीकृतखांतवलयां निवारिताविज्ञातजननिर्गमप्रवेशामप्रमत्ताप्त पुरुपगुल्मकप्रतिपन्नसकलप्रतोलिरक्षा पाणिक्षेपणीयपाषाणकूटस्थपुटितप्राकारासन्नस्थलामनियतावस्थानहयसप्तिसैन्यसतताशून्यपर्यन्तां प्राकारशिखरोत्सङ्गसूत्रितविचित्रयन्त्रनिचयां काञ्चिनगरीमकरोत् । अपरित्यक्तसमराभिला- 15 षश्च साहायकधिया सविधवर्तिनामवनिपालानामनुसंधानाय प्रधानदूतानहरहः प्राहिणोत् ।।'
५७) 'पृतनाधिपोऽपि प्रकृत्यमर्षणः प्रणिधिपुरुषेभ्य उपलभ्य तस्य तथाविधं समारम्भमधिकोपजातसंरम्भः सरभसप्रधाविताभिरनीकिनीभिरागत्य विहितोपरोधः पर्यन्तेपु काऊच्याः स्कन्धावारममुञ्चत् । कृतासारसंरोधश्च प्रावृपेयजलधरव्यूह इव पौरलोकानां महान्तमातङ्कमकरोत् । सामन्ताश्च सज्जीकृतसमदसामजघटा विघटनाय दुर्गस्य तेन 20 कृतविसर्गाः क्रमेण निर्जग्मुः । आविष्कृताटोपदुष्प्रसहैत्र तैः सह प्राकारशिखरवर्तिनः कुसुमशेखरराजलोकस्यान्योन्यकृतनिर्भर्त्सनानि समत्सरसुभटसिंहनादबधिरीकृताभ्यर्णवासि जनकर्णरन्ध्राणि नीरन्ध्रपाषाणक्षेपक्षणमात्रस्थलीकृताम्बरतलानि निईयाहततूर्यरवपर्यासितकातरकरशस्त्राणि यन्त्रविक्षिप्ताग्नितप्ततैलच्छटाविघटमानविकटपदातिगुम्फानि बद्धस्फरतिरोहितपुरुषखन्यमानप्राकारमूलबन्धानि क्रोधदष्टौष्ठभूयमाणदुर्गस्थवैरिनिष्ठुराक्रोशानि शिर- 25 स्थितफरकफारकप्रार्थ्यमानप्राकारखण्डीप्रवेशानि तृणपूलकोल्कानलपदीप्तकरिसारिनिःसरद्विहस्तहस्त्यारोहाणि वेगलग्नाग्नितप्तनाराचविलीयमाननृपतिकाञ्चनमुकुटानि कुठारताडित प्रतोलीकपाटनिःस्वनानुसारनिपतत्प्रबलपाषाणवर्षाणि कृतकलकलग्रामीणावलोक्यमानप्रहारविकलविद्रवद्विपघटानि भयानकानि च कुतूहलकराणि च क्रोधजनकानि च हासावहानि च विनोदभूतानि च निर्वेददायीनि च प्रतिदिनमायोधनान्यभवन् । एवं च काञ्चीग्रहणरक्षणविधा- 30 वधिरूढगादाभिनिवेशयोरभिनवोढदम्पतिकरपल्लवयोरिव तयोः कियान यतिपपात कालः ।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org