________________
15
तिलकमञ्जरी
४७ परिक्षिप्तमनतिनिकटनिरन्तरासीननिभृतवल्लभराजलोकमभ्यर्णवर्तिनीभिरनवरतचामरोक्षेपचलितकलाचिकाञ्चनवलयाभिरिविल पाभिरुपवीज्यमानवपुषमुषःकालसे वागतेन सह प्रविश्य कतिपयप्रणयिभिः राजसूनुना प्रणम्य सविनयमवनीतलोपविष्टेन पितृचरणविन्यस्तनिश्चल दृष्टिना हरिवाहनेनोपास्यमानमागृहीतचित्रकनकवेत्रलता प्रतीहारी प्रविश्य क्षितितलन्यस्तजानुहस्त5 युगला सविनयं व्यजिज्ञपत- देव ! संप्रत्येव दक्षिणापथादागतो दक्षिणदण्डाधिपतेर्वश्रा
युधस्य प्रसादभूमिर्विजयवेगनामा प्रधानपुरुषः, सकलपुरुषार्थसिद्धिसंपादकं देवस्य पादपद्म युगलं द्रष्टुमुत्कण्ठितो द्वारि तिष्ठतीत्याकर्ण्य देवः प्रमाणम्'। अवनिपालस्तु सस्मृत्य वचनेन तस्याः पूर्ववृत्तमगुलीयकप्रेषणवृत्तान्तमधिगतप्रीतिः 'प्रवेशय' इति तां सादरमवदत् । अथ
पार्थिववचनानन्तरमेव सा 'यदाज्ञापयति देवः' इत्युक्त्वा सत्वरमास्थानमण्डपान्नि10 जगाम । क्षणमात्रनिर्गतायां च तस्यां द्वारदेशप्रहितलोचनो महीपतिः प्रविशन्तमीपत्क्षाम
वपुषमुपरचितराजदर्शनोचितवेपमचिरस्नातमपि मार्गवातातपालुष्टगात्रत्वक्तया मलिनमिवोपलक्ष्यमाणमतिचिरदर्शनादपरिचितमिव परकीयमिवान्यथाभूतमिव राजकुलमाकलयन्तमवनिपालदर्शनोत्सुक्तया च संभाषणगोचरागतानिष्ठानपि सकृद्दृष्टानिव राजपुरुपानल्पविस्तरमालपन्तमुत्तरीयपटगोपायितोपायनेन पश्चाद्व्रजता पुरुषेणानुगम्यमानं विजयवेगमपश्यत् ।।
५५) दृष्ट्वा च कृतस्मितो दूरादेव संभ्रमवता संभाषणेनैनमनुजग्राह । सरभसोपसृतं च तं कृतप्रणाममासक्तकुट्टिमरजोधूसरललाटजानुकरपुटमुपविष्टमन्तिकोपनीते सविनयमासने प्रीतिप्रसन्नतारकेण चक्षुपा क्षणमात्रमवलोक्य जगाद--- विजयवेग ! कुशलमखिलवीरचक्रप्रकाण्डस्य महादण्डाधिपतेः पृथिव्यामप्रतिहतायुधस्य सराजलोकस्य
वज्रायुधस्य १" स च किञ्चिदुझितासनो विनयविरचिताञ्जलिः प्रणम्याब्रवीत्---'अद्य 20 कुशलम् , यस्मिन्नितरजन इव विसर्जिताहकारग्रन्थिरित्थं स्वयमादिशति सकलभुवना
भिनन्दितप्रभावो देवः । त्वदनुभावप्रसाधिताखिलदुर्वृत्तरिपुराजन्यकेन सैन्याधिपतिना विज्ञापितोऽस्मद्वचनेन पञ्चाङ्गचुम्बितमणिकुट्टिमः प्रणामः । ससंभ्रममवनताश्चार्चयन्ति देवस्य चरणनखचिन्तामणिपरंपरां पुरःप्रकीर्णचूडामणिकिरणचक्रवालवालपल्लवमूर्द्धभिमूर्हा
भिषिक्तपार्थिवकुलोद्भवा भवदत्तभीमभानुवेगप्रभृतयः सपरिजना राजानः' । इत्युदीर्य 25 भूयोऽप्यभाषत-'देव ! बालारुणाभिधानं दिव्यमङ्गुलीयकरत्नं पुरा यत् प्रेषितं देवेन
दण्डाधिपस्य, तद्धृत्तं तेन कालमेतावन्तमात्मसंनिधौ । अधुना च करदीकृतसकलदाक्षिणा त्यक्षोणिपतिना तेन मत्पार्श्व प्रहितमिह । मयाप्यद्य निरवद्यमणिभिर्भूषणगणैः समेतमखिलरत्नकोशाध्यक्षस्य महोदधेः ससाक्षिकं समर्पितमित्यवधारयतु दिव्यदृष्ट या देवः' इति ।
वदन्तं च तमुपजातकौतुको नृपः सस्मितमवादीत- विजयवेग ! कञ्चित् कृतस्तेन 30 कश्चिदुपकारः संगरेषु सेनापतेस्त्वदीयस्य' । स जगाद-- 'देव ! स कृतो यं न
कश्चिदन्यः करोति । आकर्णयतु देवः । इतः समनन्तरातीतवर्षे निवृत्तास्वविरलजलासारवर्षासु वर्षासु, प्रवृत्ते संवर्तितसिन्धुपूरपयसि परिणमत्कलमकपिलायमानकैदारिको बद्धस्तम्ब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org