________________
कविधनपाल कृता प्रतिजागर्यमाणस्य, प्रकटितसंभ्रमाभिरन्तःपुरिकाभिराहूयाहूय गाढमाश्लिष्यमाणस्य, स्थानस्थानारोपितमहाप्रभावानेकमणिभिः प्रधानभूषणैः प्रसाधितललितसर्वाङ्गस्य, धृतायुधान्त. र्वशिकवातसततानुगम्यमानमार्गस्य, स्वभावरम्येषु मणिकुट्टिमेषु क्रीडाशैलकटकेषु नन्दनवनप्रासादकेषु कृत्रिमापगापुलिनेषु च कपोलदोलायमानकमनीयकाकपक्षः क्षितिपालकारकैः सह क्रीडासुखमनेकप्रकारमनुभवतो, निरङ्कुशप्रचारस्य पञ्चवर्षाणि तस्यान्तःपुरेऽतिचक्रमुः।। 5
५२) अवतीर्णे च षष्ठे, किञ्चिदुपजातदेहसौष्ठवस्य व्यक्तवर्णवचनप्रवृत्तेर्विनचारोपणाय राजा राजकुलाभ्यन्तर एव कारितानवद्यविद्यागृहः सम्यगासेवितगुरुकुलानामवगताखिलशास्त्रमर्मनिर्मलोक्तियुक्तीनामुत्तमाम्नायलब्धजन्मनामसन्मार्गगतिनिसर्गविद्विषां विद्यागुरूणामहरहः संग्रहमकरोत् । उपनिन्ये च तेभ्यः शोभन दिनमुहूर्ते निर्वर्तितसमस्तेतिकर्तव्यः स्नातमनुपहतसूक्ष्मक्षौमकल्पितोत्तरासंगमनुलिप्ताङ्गमामोदिना मलयजरसेन प्रत्युर- 10 समामुक्तमुक्ताकलापमुपरचितरोचनातिलकरुचिरललाटमुत्तमाङ्गघटितमालतीमुकुलगण्डमाल मवदातवेषतया सविशेषदर्शितादरमभ्युत्थितायाः पुरः सरस्वत्याः सितांशुधवलया शरीरच्छाययेव च्छुरितमात्मजम् । अवनिपतिपूजाविशेषवर्धितप्रीतयश्च ते लिपिविशेषदर्शनपुरःसरमशेषाण्यपि व्याकरणादीनि शास्त्राणि तस्मै क्रमेणोपादिक्षन् । कुमारोऽपि सतताभियुक्ततया गुरूणां, नियन्त्रणपरतया पितुः, अविद्यमानतया दुर्विनीतसंनिधेः, स्वाधीनतया सर्वागमो- 15 पनिबन्धानां, कुशाग्रीयतया च निजबुद्धेः, अल्पेनैव कालेन तेषामभ्यन्तरोऽभवत् । अमुक्ताभियोगश्च दशभिरदैश्चतुर्दशापि विद्यास्थानानि सह सर्वाभिरुपवियाभिर्विदाञ्चकार । कलाशास्त्रं च निरवशेष विवेद । विशेषतश्चित्रकर्मणि वीणावाद्ये च प्रवीणतां प्राप । भुजबल चास्य विस्मापितसुरासुर केसरिकिशोरस्येव सहज शारीरमभवत् । आरब्धकार्यस्व त्रिभुवनेऽप्यशक्यमविजेयमसाध्य च किमपि न प्रायेणाभूत ।
५३) एव' च परिणताशेषशास्त्रमासादितसकलास्त्रविद्यापारमुपलब्धसर्वबुधजनसाधुवादमारूढनवतारुण्यलक्ष्मीलब्धपरिपूर्णसर्वावयवशोभमनुमोदित विद्यागुरुजनेन हरिवाहनमतिक्रान्ते पोशे वर्षे हर्षनिर्भगे राजा विसर्जितैराकारणाय सादरमुदाराकारवेषैः प्रधानपुरुषैरनुगम्यमानमतिभूयसा विभवेन स्वभवनमानिनाय । निर्वतिताखिलगृहप्रवेशमङ्गलश्चास्य नगरबाह्यायामलघुत्रप्रालङ्कृतप्राकारलावताभ्रमः भ्रतो गस्तम्समुजवतो निखात- 25 शातकुम्भपूर्णोद्भासितद्वारदेशमनेकगजतुरङ्गशालाभिराम कुमारभवनमकारयत् । कर्तुकामञ्च चौवराज्याभिषेक तस्य साहायकार्थमाज्ञाभरसह प्रज्ञया पराक्रमेणाकारेण विनयेन वचन. विन्यासेनोद्यमेनापरैश्च त्यागशोर्यगाम्भीर्यादिभिः प्रमुगुणैधतानुकारमुर्वीपतिकुमारमादरप्रेषितैः प्रणिधिपुरुषैनिशमुर्यामन्वियेष ॥
५४) एकदा च तं प्रातरेवास्थानमण्डपोपविष्टमध्यासितविकटहेमविपरमुत्स्वातखङ्गैः 30 कृतनिरन्तरावस्थितिभिल स्थितैरावद्धपङ्क्तिभिः शरीररक्षाधिकारनियुक्तैर्वीरपुरुषैरुभयतः
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org