________________
तृतीय परिच्छेद
देवागमस्तोत्रं - आप्तमीमांसा
द्वितीय परिच्छेद
अद्वैतैकान्तपक्षेपि दृष्टो भेदो विरुध्यते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते ॥ २४ ॥ कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याविद्याद्वयं न स्याद्बन्धमोक्षद्वयं तथा ॥ २५॥ तोर द्वैत सिद्धिश्चेद्वैतं स्याद्वैतुसाध्ययोः । हेतुना चेद्विना सिद्धिद्वैतं वाङ्मात्रतो न किम् ॥ २६ ॥ अद्वैतं न विना द्वैतादहेतुरिव हेतुना । संज्ञिनः प्रतिषेधो न, प्रतिषेध्यादृते क्वचित् ॥ २७॥ पृथक्त्वैकान्तपक्षेपि पृथक्त्वादपृथक् तु तौ । पृथक्त्वे न पृथक्त्वं स्यादनेकस्थो ह्यसौ गुणः ॥ २८ ॥ संतान: समुदायश्च साधर्म्यं च निरंकुशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वनिन्हवे ॥२६॥ सदात्मना च भिन्न चेज्ज्ञानं ज्ञेयाद् द्विधाप्यसत् । ज्ञानाभावे कथं ज्ञेयं, बहिरन्तश्च ते द्विषाम् ||३०|| सामान्यार्था गिरोऽन्येषां विशेषो नाभिलप्यते । सामान्याभावतस्तेषां मृषैव सकला गिरः ॥३१॥ विरोधान्नोभयैकात्म्यं, स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेप्युक्तिर्नावाच्यमिति युज्यते ॥ ३२ ॥ अनपेक्षे पृथक्त्वैक्ये, ह्यवस्तु द्वयहेतुतः । तदेवैक्यं पृथक्त्वं च स्वभेदेः साधनं यथा ॥ ३३॥ सत्सामान्यात्तु सर्वेक्यं पृथग्द्रव्यादिभेदतः । भेदाभेदविवक्षायामसाधारण हेतुवत् ॥३४॥ विवक्षा चाविवक्षा च विशेष्येऽनन्तर्धार्मिणि । सतो विशेषणस्यात्र, नासतस्तैस्तदर्थभिः ॥ ३५|| प्रमाणगोचरौ सन्तौ भेदाभेदौ न संवृती । तावेकत्राविरुद्धौ ते गुण मुख्यविवक्षया ॥ ३६ ॥ तृतीय परिच्छेद
Jain Education International
[ ६०३
नित्यत्वैकान्तपक्षेपि विक्रिया नोपद्यते । प्रागेव कारकाभाव:, क्व प्रमाणं क्व तत्फलम् ॥३७॥ प्रमाणकारकैर्व्यक्तं व्यक्तं चेदिन्द्रियार्थवत् । ते च नित्ये विकार्यं कि, साधोस्ते शासनाद्बहिः ॥ ३८ ॥ यदि सत्सर्वथा कार्यं पुंवन्नोत्पत्तुमर्हति । परिणामप्रक्लृप्तिश्च नित्यत्वकांत बाधिनी ॥३६॥ पुण्यपापक्रिया न स्यात् प्र ेत्यभावः फलं कुतः । बन्धमोक्षौ च तेषां न, येषां त्वं नासि नायकः ॥ ४० ॥ क्षणिकान्तपक्षेपि प्रत्यभावाद्यसंभवः । प्रत्यभिज्ञानभावान्न, कार्यारम्भः कुतः फलं ॥ ४१ ॥ यद्यत् सर्वथा कार्य, तजन्मा जनि खपुष्पवत् । मोपादाननियामोऽभून्माश्वासः कार्यजन्मनि ॥४२॥ हेतुफलभावादिरन्यभावादनन्वयात् । सन्तानान्तरवन्नैकः, सन्तानस्तद्वतः पृथक् ॥४३॥ अन्येष्वनन्यशब्दोयं, संवृतिर्न मृषा कथम् ? । मुख्यार्थः संवृतिर्न स्याद्विना मुख्यान संवृतिः ॥ ४४ ॥ चतुष्को विकल्पस्य सर्वान्तेषूक्त्ययोगतः । तत्त्वान्यत्वमवाच्यं चेत्तयोः संतानतद्वतोः ॥ ४५॥ अवक्तव्यचतुष्कोटि विकल्पोपि न कथ्यताम् । असर्वान्तमवस्तु स्यादविशेष्य विशेषणम् ॥ ४६ ॥ द्रव्याद्यन्तरभावेन निषेधः संज्ञिनः सतः । असद्भेदो न भावस्तु, स्थानं विधिनिषेधयोः ॥ ४७ ॥ अवस्त्वनभिलाप्यं स्यात्सर्वान्तैः परिवर्जितम् । वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥ ४८ ॥ सर्वान्ताश्चेदवक्तव्यास्तेषां किं वचनं पुनः । संवृतिश्चेन्मृषैवैषा,
न
परमार्थविपर्ययात् ॥४६॥
For Private & Personal Use Only
www.jainelibrary.org