________________
देवागमस्तोत्रं-आप्तमीमांसा
(श्री समंतभद्रस्वामिविरचितम्)
प्रथम परिच्छेद
देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥१॥ अध्यात्म बहिरप्येष, विग्रहादिमहोदयः । दिव्यः सत्यो दिवौकस्स्वप्यस्ति रागादिमत्सु सः ॥२॥ तीर्थकृत्समयानां च, परस्परविरोधतः । सर्वेषामाप्तता नास्ति, कश्चिदेव भवेद्गुरुः ॥३॥ दोषावरणयोर्हानिनिश्शेषास्त्यतिशायनात् । क्वचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मलक्षयः ॥४॥ सूक्ष्मान्तरितदूरार्थाः, प्रत्यक्षाः कस्यचिद्यथा। अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥५॥ स त्वमेवासि निर्दोषो, युक्तिशास्त्राविरोधिवाक् । अविरोधी यदिष्टं ते, प्रसिद्धेन न बाध्यते ॥६॥ त्वन्मतामतगह्यानां, सर्वथैकान्तवादिनाम् । आप्ताभिमानदग्धानां, स्वेष्टं दृष्टेन बाध्यते ॥७॥ कुशलाकुशलं कर्म, परलोकश्च न क्वचित् । एकान्तग्रहरक्तेषु, नाथ ! स्वपरवैरिषु ॥८॥ भावैकान्ते पदार्थानामभावानामपन्हवात् । सर्वात्मकमनाद्यन्तमस्वरूपमतावकम् ॥६॥ कार्यद्रव्यमनादि स्यात्, प्रागभावस्य निह्नवे। प्रध्वंसस्य च धर्मस्य, प्रच्यवेऽनन्ततां व्रजेत् ॥१०॥ सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे। अन्यत्र समवाये न, व्यपदिश्येत सर्वथा ॥११॥ अभावकान्तपक्षेपि, भावापन्हववादिनाम् । बोधवाक्यं प्रमाणं न, केन साधन दूषणम् ॥१२॥ विरोधान्नोभयेकात्म्यं, स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेप्युक्तिर्नावाच्यमिति युज्यते ॥१३॥ कथंचित्ते सदेवेष्ट, कथंचिदसदेव तत्। तथोभयमवाच्यं च, नययोगान सर्वथा ॥१४॥ सदेव सर्व को नेच्छेत्, स्वरूपादिचतुष्टयात् । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥१५॥ क्रमापितद्वयाद् द्वैतं, सहावाच्यमशक्तितः । अवक्तव्योत्तराः शेषास्त्रयो भंगाः स्वहेतुतः ॥१६॥ अस्तित्वं प्रतिषेध्येनाविनाभाव्येकर्धामणि । विशेषणत्वात्साधर्म्य, यथा भेदविवक्षया ॥१७॥ नास्तित्वं प्रतिषेध्येनाविनाभाव्येकर्धामणि। विशेषणत्वाद्वैधयं यथाभेदविवक्षया ॥१८॥ विधेयप्रतिषेध्यात्मा, विशेष्यः शब्दगोचरः। साध्यधर्मो यथा हेतुरहेतुश्चाप्यपेक्षया ॥१६॥ शेषभंगाश्च नेतव्या, यथोक्तनययोगतः । न च कश्चिद्विरोधोस्ति, मुनीन्द्र ! तव शासने ॥२०॥ एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् । नेति चेन्न यथा कार्य, बहिरन्तरुपाधिभिः ॥२१॥ धर्म धर्मेन्य एवार्थो, मिणोनन्तधर्मणः। अंगित्वेन्यतमान्तस्य, शेषान्तानां तदंगता ॥२२॥ एकानेकविकल्पादावुत्तरत्रापि योजयेत् । प्रक्रियां भंगिनीमेना, नयनयविशारदः ॥२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.