________________
६०४ ]
अष्टसहस्री अशक्यत्वादवाच्यं किमभावात्किमबोधतः । आद्यन्तोक्तिद्वयं न स्यात्, कि व्याजेनोच्यता स्फुटम् ॥५०॥ हिनस्त्यनभिसन्धात, न हिनस्त्यभिसंधिमत् । बध्यते तद्वयापेतं, चित्त बद्धं न मुच्यते ॥५१॥ अहेतुकत्वान्नाशस्य, हिंसाहेतुर्न हिसकः । चित्तसंततिनाशश्च, मोक्षो नाष्टांगहेतुकः ॥५२॥ विरूपकार्यारम्भाय, यदि हेतुसमागमः। आश्रयिभ्यामनन्योसावविशेषादयुक्तवत् ॥५३॥ स्कन्धसन्ततयश्चैव, संवृतित्वादसंस्कृताः । स्थित्युत्पत्तिव्ययास्तेषां, न स्युः खरविषाणवत् ॥५४॥ विरोधान्नोभयेकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेप्युक्ति वाच्यमिति युज्यते ॥५५॥ नित्यं तत्प्रत्यभिज्ञानान्न कस्मात्तदविच्छिदा। क्षणिकं कालभेदात्ते, बुद्धयसंचरदोषतः ॥५६॥ न सामान्यात्मनोदेति, न व्येति व्यक्तमन्वयात् । व्येत्युदेति विशेषात्त, सहैकत्रोदयादि सत् ॥५७॥ कार्योत्पादः क्षयो हेतोनियमाल्लक्षणात्पृथक् । न तो जात्याद्यवस्थानादनपेक्षाः खपुष्पवत् ॥५॥ घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्य, जनो याति सहेतुकम् ॥५६॥ पयोव्रतो न दध्यत्ति, न पयोत्ति दधिवतः । अगोरसवतो नोभे, तस्मात्तत्त्वं त्रयात्मकम् ॥६०॥ चतुर्थ परिच्छेदकार्यकारणनानात्वं, गुणगुण्यन्यतापि च । सामान्यतद्वदन्यत्वं, चेकान्तेन यदीष्यते ॥६॥ एकस्यानेकवृत्तिन, भागाभावाबहूनि वा। भागित्वाद्वास्य नैकत्वं, दोषो वृत्तेरनाहते ॥६२॥ देशकालविशेषेपि, स्यादत्तिर्युतसिद्धवत् । समानदेशता न स्यान्मूर्तकारणकार्ययोः ॥६३॥ आश्रयाश्रयिभावान्न, स्वातन्त्र्यं समवायिनाम् । इत्ययुक्तः स संबंधो, न युक्तः समवायिभिः॥६४॥ सामान्यं समवायश्चाप्येकैकत्र समाप्तितः । अन्तरेणाश्रयं न स्यान्नाशोत्पाविषु को विधिः ॥६५॥ सर्वथानभिसंबंधः, सामान्यसमवाययोः। ताभ्यामर्थो न संबद्धस्तानि त्रीणि खपुष्पवत् ॥६६॥ अनन्यतकान्तेणूना, संघातेपि विभागवत् । असंहतत्वं स्याद्भूतचतुष्कं भ्रान्तिरेव सा॥६७॥ कार्यभ्रान्तेरणुभ्रान्तिः, कार्यलिंग हि कारणम् । उभयाभावतस्तत्स्थं गुणजातीतरच्च न॥६॥ एकत्वेन्यतराभावः, शेषाभावोविनाभुवः। द्वित्वसंख्याविरोधश्च संवृत्तिश्चेन्मषेव सा ॥६॥ विरोधान्नोभयेकात्म्यं, स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेप्युक्ति वाच्यमिति युज्यते ॥७०॥ द्रव्यपर्याययोरैक्यं, तयोरव्यतिरेकतः। परिणामविशेषाच्च, शक्तिमच्छक्तिभावतः ॥७१॥ संज्ञासंख्याविशेषाच्च, स्वलक्षणविशेषतः। प्रयोजनादिभेदाच्च, तन्नानात्वं न सर्वथा ॥७२॥ पंचम परिच्छेदयद्यापेक्षिकसिद्धिः स्यान्न द्वयं व्यवतिष्ठते । अनापेक्षिकसिद्धौ च, न सामान्यविशेषता ॥७३॥ विरोधान्नोभयेकात्म्यं, स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेप्युक्ति वाच्यमिति युज्यते ॥७४॥ धर्मधर्म्यविनाभावः, सिध्यत्यन्योन्यवीक्षया। न स्वरूपं स्वतो ह्येतत्, कारकज्ञापकांगवत् ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.