________________
४२० प्रेत-व्रजः प्रति भवन्तमपीरितो यः, सोऽस्या-भवत्प्रतिभवं भव-दुःख-हेतुः ॥३३॥ धन्यास्त एव भवताधिप ! ये त्रिसन्ध्य-माराधयन्ति विधिवद्विधुतान्य-कृत्याः। भक्त्योल्लसत्पुलक-पक्ष्मल-देह-देशाः, पाद-द्वयं तव विभो ! भुवि जन्मभाजः ॥३४॥ अस्मिन्न-पार-भर-वारि-निधौ मुनीश !, मन्ये नमे श्रवण-गोचरतां गतोऽसि । आकर्णिते तु तब गोत्र-पवित्रमन्त्रे, किं वा विपद्विष-धरी सविधं समेति ? ॥३५॥ जन्मांतरेपि नव पाद युगंन देव, ! मन्ये मया महितमीहित-दानदक्षम् । तेनेह जन्मनि मुनीश ! पराभवानां, जातो निकेतनमहं मथिताशयानाम् ॥ ३६ ॥ नूनं न मोह-तिमिरा-वृतलोचनेन, पूर्व विभो ! सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति हि मामनाः प्रोद्यत्प्रबंध-गतयः कथमन्यथैते ? ॥ ३७ ॥ आकर्णितोऽपि, महितोऽपि निरीक्षितोऽपि नूनं न चेतसि मया विधृतोऽसि भक्त्या । जातोऽस्मि तेन जनबांधव ! दुःख-पात्रं, यस्माक्रियाः प्रतिफलन्ति न भावशून्याः ॥३८॥ त्वं नाथ ! दुःखि-जन-वत्सल ! हे शरण्य !; कारुण्य-पुण्यवसते ! वशिनां वरेण्य ! । भक्त्या नते मयि महेश ! दयां विधाय, दुःखांकुरोदलन-तत्परतां विधेहि ॥३९।। निःसंख्य-सार शरणं शरणं शरण्य-मासाद्य सादित-रिपु प्रथितावदातम् । त्वत्पाद-पंकजमपि प्रणिधान-वंध्यो, वध्योऽस्मि चेद्भवन-पावन ! हा हतोऽस्मि ॥४०॥ देवेन्द्र-वन्ध !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org