________________
४२१
विदिताखिल-वस्तु-सार !, संसार-तारक ! विभो ! भुवनाधिनाथ ! । त्रायस्व देव ! करुणा-हद ! मां पुनीहि, सीदंतमद्य भयदव्यसनांबु-राशेः ॥४१॥ यद्यस्ति नाथ ! भवदंघ्रि-सरोरूहाणां, भक्तेः फलं किमपि संतति-संचितायाः। तन्मे त्वदेक-शरणस्य शरण्य ! भूयाः, स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ।। ४२ ।। इत्थं समाहित-धियो विधिवज्जिनेंद्र !, सांद्रोल्लसत्पुलक-कंचुकिताङ्गभागाः। त्वद्विब-निर्मल-मुखांबुज-बद्ध-लक्ष्या, ये संस्तवं तव विभो ! रचयन्ति भव्याः ॥ ४३ ॥ जन-नयन-कुमुद-चंद्र ! प्रभास्वराः स्वर्ग-संपदो भुक्त्वा । ते विगलित-मल-निचया, अचिरान्मोक्षं प्रपद्यन्ते ॥ युग्मम् ॥ ४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org