________________
४१९
जगन्त्रयाय, मन्ये नदन्नभि-नभः सुर-दुन्दुभिस्ते ॥ २५ ॥ उद्योतितेषु भवता भुवनेषु नाथ ! तारान्वितो विधुरयं विहताधिकारः । मुक्ता-कलाप-कलितोच्छ्वसितात-पत्र-व्याजास्त्रिधा धृत-तनुध्र वमभ्युपेतः ॥ २६ ॥ स्वेन प्रपूरित-जगस्त्रय-पिंडितेन, कांति-प्रताप-यशसामिव संचयेन । माणिक्यहेम-रजत-प्रविनिर्मितेन, साल-त्रयेण भगवन्नभितो विभासि ॥ २७ ॥ दिव्य-स्रजो जिन ! नमस्त्रि-दशाधिपानामुत्सृज्य रत्न-रचितानपि मौलि-बंधान् । पादौ श्रयन्ति भवतो यदि वा परत्र, त्वत्संगमे सु-मनसो न रमन्त एव ॥ २८॥ त्वं नाथ ! जन्म-जलधेर्विपराङ्मुखोऽपि, यत्तारयस्यसु-मतो निजपृष्ठ-लग्नान् । युक्तं हि पार्थिव-निपस्य सतस्तवैव, चित्रं विभो । यदसि कर्म-विपाकशून्यः ॥२९ ॥ विश्वेश्वरोऽपि जन-पालक ! दुर्गतस्त्वं, कि वाऽक्षर-प्रकृतिरप्य-लिपिस्त्वमोश ! । अज्ञानवत्यपि सदैव कथंचिदेव, ज्ञानं त्वयि स्फुरति विश्व-विकाश-हेतुः ॥ ३० ॥ प्राग्भार-संभृतनभांसि रजांसि रोषा-दुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ ! हता हताशो, ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥३१॥ यद् गर्जदूर्जित-घनौघमदभ्र-भीमं, भ्रश्यत्तडिन्मुसलमांसल-घोर-धारम्। दैत्येन मुक्तमथ दुस्तर-बारि दध्र, तेनैव तस्य जिन दुस्तरवारि-कृत्यम् ॥ ३२ ॥ ध्वस्तोर्ध्व-केशविकृता-कृति-मज़-मुड-प्रालंब-भृद्भय-द्वक्त्र-विनियंदग्निः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org