________________
४१८
,
करोति १ ||१७|| त्वामेव वीत - तमसं पर - वादिनोऽपि, नूनं विभो ! हरि-हरादि- धिया प्रपन्नाः । किं काच- कामलिभिरीश ! सितोऽपि शंखो, नो गृह्यते विविध-वर्ण- विपर्ययेण ? ॥ १८ ॥ धर्मोपदेश - समये स - विधानुभावा - दास्तां जनो भवति ते तरुरण्यशोकः । अभ्युद्गते दिन पतौ स - महीरुहोऽपि किं वा विबोधमुपयाति न जीव-लोकः ? ||१९|| चित्र विभो ! कथमवाङ्मुख-वृन्तमेव, विष्वक् पतत्यविरला सुरपुष्पवृष्टिः ? । त्वद्गोचरे सु-मनसां यदि वा मुनीश ! गच्छन्ति नूनमध एव हि बंधनानि ||२०|| स्थाने गभीर - हृदयोदधि-संभवायाः, पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परम- संमद-संग - भाजो, भव्या व्रजन्ति तरसाप्यजरामरत्वम् ॥२१॥ स्वामिन् ! सु-दूरमवनम्य समुत्पतन्तो, मन्ये वदन्ति शुचयः सुर-चामरौघाः । येऽस्मै नतिं विदधते मुनिपुंगवाय, ते नूनमूर्ध्व-गतयः खलु शुद्ध भावाः || २२ || श्यामं गभीर - गिरमुज्ज्वल- हेम - रत्न - सिंहासन - स्थमिह भव्य - शिखंडिनस्त्वाम् । आलोकयन्ति रभसेन नदन्तमुच्चै - श्चामी - कराद्रि - शिरसीव नवांबु-वाहम् ||२३|| उद्गच्छता तव शितिद्युति-मंडलेन, लुप्त-च्छद च्छविरशोक-तरुर्वभूव । सान्निध्यतोऽपि यदि वा तव वीत - राग !' नीरागतां व्रजति को न चेतनोऽपि ॥ २४ ॥ भो भोः ! प्रमादमवधूय भजध्वमेन - मागत्य निर्वृति - पुरीं प्रति सार्थ - वाहम् । एतन्निवेदयति देव !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org