________________
४१७ त एव, त्वामुद्वहति हृदयेन यदुत्तरंतः यद्वा दृतिस्तरति यज्जलमेष नूनमंतर्गतस्य मरुतः स किलानुभावः ॥१०॥ यस्मिन् हर-प्रभृतयोऽपि हत-प्रभावाः, सोऽपि त्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुत-भुजः पयसाथ येन, पीतं न किं तदपि दुर्धर-बाडवेन ॥ ११ ॥ स्वामिन्ननल्पगरिमाणमपि प्रपन्नास्त्वां जन्तवः कथमहो! हृदये दधानाः । जन्मोदधि लघु तरत्यांत-लाघवेन ? चित्यो न हत महता यदि वा प्रभावः ॥१२॥ क्रोधस्त्वया यदि विभो ! प्रथम निरस्तो, ध्वस्तास्तदा बत कथं किल कर्म-चौराः ? ॥ प्लोषत्यमुत्र यदि वा शिशिराऽपि लोके नील-द्रुमाणि विपिनानि न किं हिमानी ? ॥१३॥ त्वां योगिनो जिन ! सदा वरमात्मरूप-मन्वेषयंति हृदयांबुज-कोश देशे। पूतस्य निर्मल-रुचेयेदि वा किमन्य-दक्षस्य संभवि पदं ननु कर्णिकायाः ॥१४॥ ध्यानाज्जिनेश ! भवतो भविनः क्षणेन, देहं विहाय वरमात्म-दशां ब्रजन्ति । तीव्रानलादुपल-भावमयास्य लोके, चामी-करत्वमचिरादिव धातु-भेदाः ॥ १५ ॥ अंतः सदैव जिन ! यस्य विभाव्यसे त्वं, · भव्यैः कथं तदपि नाशयसे शरीरम् ? । एतत्स्व-रूपमथ मध्य-विवर्तिनो हि, यद्विग्रहं प्रशंमयन्ति महानुभावाः ॥१६॥ आत्मा मनीषिभिरयं त्वदभेद-बुद्धया, ध्यातो जिनेंद्र ! भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचित्यमानं, किं नाम नो विष-विकारमपा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org