________________
४१६
॥ २ ॥ युग्मम् ॥ सामान्यतोऽपि तव वर्णयितुं-स्वरूपमस्मादृशाः कथमधीश ? भवत्यधीशाः । धृष्टोऽपि कौशिकशिशुर्यदि वा दिवांधो, रूपं प्ररूपयति किं किल धर्म-रश्मेः ? ॥३॥ मोह-क्षयादनुभवन्नपि नाथ ! मयो, नूनं गुणान् गणयितुं न तव समेत । कल्पांत वान्त पयसः प्रकटो ऽपि यस्मान्मीयेत केन जलधेर्ननु रत्नराशिः ? ॥ ४ ॥ अभ्युद्यतोऽस्मि तव नाथ ! जडाशयोऽपि, कतु स्तवं लसदसंख्यगुणाकरस्य । बालोऽपि किं न निज-बाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियांबुराशेः ? ॥५॥ ये योगिनामपि न यांति गणास्तवेश !। वक्तं कथं भवति तेषु ममावकाशः ? । जाता तदेवम-समीक्षितकारितेयं जल्पंति वा निज-गिरा ननु पक्षिणोऽपि ॥ ६॥ आस्तामचिंत्य-महिमा जिन ! संतवस्ते, नामाऽपि पाति भवतो भवतो जगंति । तीव्रातपोपहतपांथ-जनान्निदाघे, प्रीणाति पद्म-सरसः सरसोऽनिलोऽपि ॥ ७ ॥ हृद्वर्तिनि त्वयि विभो ! शिथिलीभवंति, जंतोः क्षणेन निबिडा अपि कर्म-बंधाः । सद्यो भुजंगममया इव मध्य-भाग-मभ्यागते वन-शिखंडिनि चंदनस्य ॥८॥ मच्यत एव मनुजाः सहसा जिनेंद्र रौद्र्रुपद्रव-शतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरित-तेजसि दृष्ट-मात्रे, चौरिवाशु पशवः प्रपलायमानः ॥ ९॥ त्वं तारको जिन ! कथं भविनां ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org