________________
४१५
भीमे । युद्धे जयं विजित-दुर्जय-जेय-पक्षा-स्त्वत्पाद-पंकजवनायिणो लभंते ॥ ३९ ॥ अंभो-निधौ क्षुभित-भीषण-नक्रचक्र-पाठीन-पीठ-भयदोल्वण-वाडवाग्नौ। रंगत्तरंग-शिखरस्थित-यान-पात्रास्त्रासं विहाय भवतः स्मरणाद्व्रजंति॥४०॥ उद्भत-भीषण-जलोदर-भार-भुग्नाः , शोच्यां दशामुपगतश्च्युत-जीविताशाः। त्वत्पाद-पङ्कजरजोऽमृत-दिग्ध-देहा, मा भवन्ति मकर-ध्वजतुल्यरूपाः ॥४१॥ आपाद-कण्ठमुरुशृङ्खल-वेष्टिताङ्गा, गाढं बृहन्निगड-कोटि-निघृष्ट-जङ्घाः । त्वन्नाम-मन्त्रमनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विगतबंध-भया भवंति ॥४२॥ मत्त-द्विपेंद्र-मृगराज-दवानलाहि, -संग्रामवारिधि-महोदर-बंधनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव, यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ स्तोत्रस्रजं तव जिनेंद्र! गुणैर्निबद्धां भक्त्या मया रुचिर-वर्णविचित्र-पुष्पाम् ! धत्ते जनो य इह कंठ-गतामजस्रं, तं मानतुंगमवशा समुपैति लक्ष्मीः ।। ४४ ॥
(८-अथ श्री अष्टमं कल्याणमन्दिर-स्तोत्रम् ) ___ कल्याण-मंदिरमुदारमवद्य-भेदि, भीता-भय-प्रदमनिंदितमंघ्रि-पद्मम् । संसार-सागर-निमज्जदशेष-जंतु,-पोतायमानममभिनम्य जिनेश्वरस्य ॥१॥ यस्य स्वयं सुर-गुरुर्गरिमांबुराशेः स्तोत्रं सुविस्तृत-मतिर्न विभुर्विधातुम् । तीर्थेश्वरस्य कमठ-स्मय-धूम-केतो-स्तस्याहमेष किल संस्तवनं-करिष्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org