________________
४१४
स्थगित-भानु-कर प्रतापम् । मुक्ता-फल-प्रकरजालविवृद्धशोभ, प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥३१॥ उन्निद्र-हेम-नवपंकज-पुंज-कांति, पर्यल्लसन्नख-मयूख-शिखाभिरामौ । पादौ पदानि तव यत्र जिनेद्र ! धत्तः, पद्मानि तत्र विबुधाः परिकल्पयंति ॥ ३२ ॥ इत्थं यथा तव विभूतिरभूज्जनेंद्र ! धर्मोपदेशन-विधौ न तथा परस्य । यादृक्प्रभा-दिन-कृतः प्रहतांधकारा, तादृक्कुतो ग्रह-गणस्य विकाशिनोऽपि ॥३३॥ श्च्योतन्मदाविल-विलोल-कपोल-मूल-मत्त-भ्रमद्-भ्रमर- नादविवृद्ध-कोपम् । ऐरावताभमिभमुद्धत-मापतंतं, दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४ ॥ भिन्नेभ-कुंभ-गलदुज्ज्वलशोणिताक्त-मुक्ता-फल-प्रकर-भूषित-भूमि-भागः। बद्ध-क्रमः क्रम-गतं हरिणाधिपोऽपि, नाकामति क्रम-युगाचल-संश्रितं ते ॥ ३५ ॥ कल्पांत-काल-पवनोद्धत-वह्निकल्पं, दावानलं ज्वलितमुज्ज्वल-मुत्फुलिंगम् । विश्वं जिघत्सुमिव संमुखमापतंतं, त्वन्नाम-कीर्तन-जलं शमयत्य-शेषम् ॥ ३६ । रक्तक्षणं समद-कोकिल-कंठ-नीलं, क्रोधोद्धतं फणिनमुत्फणमापतंतम् । आक्रामति क्रम-युगेन निरस्त-शंक-स्त्वन्नाम-नाग-दमनी हदि यस्य पुसः ॥ ३७॥ वल्गरा रंग-गज-गर्जित-भीम-नादमाजौ बलं बलवतामपि भूपतीनाम् । उद्य-दिवाकर-मयूखशिखापविद्धं, त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥ ३८ ॥ कुंताग्रभिन्नगज शोणित-बारिवाह, बेगावतार-तरणातुर-योध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org