________________
४१३
स्तात् । त्वामेव सम्यगपलभ्य जयन्ति मृत्यु, नान्यः शिवः शिव-पदस्य मुनींद्र ! पंथाः ॥ २३ ॥ त्वामव्ययं विभुमचिंत्यम-संख्यमाद्यं, ब्रह्माणमीश्वरमनंतमनंग-केतुम् । योगीश्वरं विदित-योगमनेकमेक, ज्ञान-स्वरूपममलं प्रवदंति संतः ।२४। बुद्धस्त्वमेव विबुधार्चित बुद्धि-बोधात् , त्वं शंकरोऽसि भुवन-त्रय-शंकरत्वात् । धाताऽसि धीर ! शिव-मार्ग-विधेर्विधानात्, व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ।। २५ ।। तुभ्यं नमस्त्रिभुवनातिहराय नाथ ! तुभ्यं नमः क्षिति-तलामल-भूषणाय ! तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन ! भवोदधिशोषणाय ।। २६ ।। को विस्मयोऽत्र ? यदि नाम गुणैरशेष-स्त्वं संश्रितो निरवकातशया मुनीश ! । दोषैरुपात्त-विबुधाश्रय-जात-गः, स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि. ॥ २७ ॥ उच्चैरशोक-तरु-संश्रितमुन्मयूखमाभाति रूपममलं भवतो नितांतम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं, बिंबं रवेरिव पयोधर-पार्श्व-वति ॥ २८ ॥ सिंहासने मणि-मयूख-शिखा-विचित्रे, विभ्राजते तव वपुः कनकाबदातम् । विवं वियद्विलसदंशु-लता-वितानं, तुंगोदयाद्रिशिरसीव सहस्र-रश्मेः ॥ २९॥ कुंदावदात-चल-चामर-चारुशोभं,विभ्राजते तव वपुः कल-धौतकान्तम् । उद्यच्छशांकशुचि-निर्झर-वारि-धार-मुच्चैस्तटं सुर-गिरेरिख शात-कौंभम् ॥ ३० ॥ छत्र-त्रयं तव विभाति शशांक-कांत-मुच्चैः स्थितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org