________________
४१२
काल मरुता चलिताचलेन, किं मंदरादि-शिखरं चलितं कदाचित् ॥ १५ ॥ निधूम-वर्त्तिरपवर्जित-तैल-पूरः, कृत्स्नं जगस्त्रयमिदं प्रकटी-करोषि । गम्यो न जातु मरुतांचलिता-चलानां, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ नास्तं कदाचिदपयासि न राहुगम्यः, स्पष्टीकरोषि सहसा युगपज्जगंति । नांभोधरो-दर-निरुद्ध-महा-प्रभावः, सूर्यातिशायिमहिमासि मुनींद्र लोके ॥ १७॥ नित्योदयं दलितमोहमहांधकारं गम्यं न राहु-वदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्प-कांति, विद्योतय-ज्जगद-पूर्व-शशांक-बिंबम् ॥१८॥ किं शर्वरीषु शशिनाऽह्नि विवस्वता वा, युष्मन्मुखेंदु-दलितेषु तमस्सु नाथ ? । निष्पन्न-शालि-वन-शालिनि जीव-लोके, कार्य कियज्जलधरैर्जल-भार-ननैः? ॥१९॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरि-हरादिषु नायकेषु । तेजःस्फुरन्मणिषु याति यथा महत्त्वं, नैवं तु काचशकले किरणा-कुलेऽपि ॥ २०॥ मन्ये वरं हरि-हरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः, कश्चिन्मनो हरति नाथ ! भवांतरेऽपि ॥ २१ ॥ स्त्रीणां शतानि शतशो जनयंति पुत्रान्, नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मिम्, प्राच्येव दिग्जनयति स्फुरदंशु-जालम् ॥२२॥ त्वामामनंति मुनयः परमं पुमांस-मादित्य-वर्णममलं तमसः पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org