________________
४११ सूर्यांशु-भिन्नमिव शावरमन्धकारम् ॥ ७ ॥ मत्वेति नाथ ! तव संस्तवनं मयेदमारभ्यते तनु-धियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी-दलेषु मुक्ता-फल-द्युतिमुपैति ननूद-बिंदुः ।। ८ । आस्तां तव स्तवनमस्त-समस्त-दोषं, त्वत्संकथापि जगतां दुरितानि हंति । दूरे सहस्र-किरणः कुरुते प्रभैव. पद्माकरेषु जलजानि विकाश-भांजि ॥२॥ नात्यद्भुतं भुवन-भूषण ! भूतनाथ !, भूतैर्गुणैर्भुवि-भवंतमभिष्टुवंतः । तुल्या भवंति भवतो ननु तेन किं वा, ? भूत्याश्रितं य इह नात्म-समं करोति ॥१०॥ दृष्ट्वा भवंतमनिमेष-विलोकनीयं, नान्यत्र तोष-मुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकर-द्युति-दुग्ध-सिंधोः, क्षारं जलं जलनिधेरशितु क इच्छेत् ? ॥११ ।। यैः शांत-राग--रुचिभिः परमाणुभिस्त्वं, निर्मापितस्त्रि-भुवनैक-ललाम-भूत !। तावंत एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समानमपरं न हि रूपमस्ति ।।१२॥ वक्त्रं क ते सुर-नरोरग-नेत्र-हारि, निःशेषनिर्जित-जगत्रितयोपमानम् !। बिम्ब कलंक-मलिनं क निशाकरस्य !, यद्वासरे भवति पांडु-पलाश-कल्पम् ॥१३॥ संपूर्णमंडल-शशांक-कला-कलाप-शुभ्रा गुणास्त्रि-भुवनं तवलंघयंति। ये संश्रितास्त्रि-जगदीश्वर ! नाथमेकं, कस्तान्निवारयति संचरतो यथेष्टम् ॥ १४ ॥ चित्रं किमत्र यदि ते त्रिदशांगनाभि-नीतं मनागपि मनो न विकार-मार्गम् ? । कल्पान्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org