________________
४१०
स्थडं भुवणे । ता तेलुक्कुद्धरणे, जिण-वयणे आयरं कुणह ॥ ४० ॥ गाहा ॥
(७-अथ सप्तमं भक्तामरस्तोत्र स्मरणं ) भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-मुद्योतकं दलित-पापतमो-वितानम् । सम्यक प्रणम्य जिन-पाद-युगंयुगादावालम्बनं भव-जले पततां जनानाम् ।। १ ॥ यः संस्तुतः सकल-वाङ्मय-तत्त्व-बोधा-दुद्भूत-बुद्धि-पटुभिः सुर-लोक-नाथैः। स्तोत्रजंगत्रितय-चित्त-हरेरुदारः, स्तोष्ये किलाहमपि तं प्रथम जिनेन्द्रम् ॥ २ ॥ बुद्धया विनापि विबुधार्चित-पाद-पीठ !, स्तोतुं समुद्यत-मतिविंगत-त्रपोऽहम् । बालं विहाय जल-संस्थितमिन्दु-विम्ब-मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥ वक्त गुणान् गुण-समुद्र ! शशांक-कांतान् , कस्ते क्षमः सुरगुरु-प्रतिमोऽपि बुद्धया । कल्पान्त-काल-पवनोद्धत-नक्र-चक्र को वा तरीतुमलमम्बु-निधिं भुजाभ्याम् ॥४॥ सोऽहं तथापि तव भक्ति-वशान्मुनीश! कतु स्तवं विगत-शक्तिरपि प्रवृत्तः । प्रीत्याऽऽत्म-वीर्य-मविचार्य मृगो मृगेन्द्र, नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥ अल्पश्रुतं श्रुतवतां परिहासधाम, त्वद्भक्तिरेव मुखरी-कुरुते बलान् माम् । यत्कोकिल: किल मधौ मधुरं विरौति, तच्चारु-चूत-कलिका-निकरैक-हेतु ॥६॥ त्वत्संस्तवेन भव-संतति-सन्निवद्धं, पापं क्षणात् क्षयमुपैति शरीर-भाजाम् ! आक्रांत-लोकमलि-नीलमशेषमाशु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org