SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ नादः --द्रव्यतो बुभुक्षातुराणामङ्गुली स्थगितकर्णानां सुसूत्कारः, भावतः स्वशरीरोत्थ एव तुर्थनिर्घोष इव स्वयं श्रूयते ॥ ११ ॥ परमनाद :--पृथग्वाद्यमानवादित्रशब्दा इव विभिन्ना ब्यक्ताः श्रूयन्ते ।। १२ ॥ तारा--द्रव्यतो विवाहादौ वधू-वरयोस्तारामेलकः; भावतः कायोत्योसर्गव्यवस्थितस्य निश्चलादृष्टिः ॥ १३ ॥ परमतारा--द्वादश्यां प्रतिमायामिवानिमेषा शुष्कपुद्गलन्यस्ता दृष्टिः ॥ १४ ॥ लयः--वज्रलेपादिद्रव्येण संश्लेषो द्रव्यतः, भावतोऽहंदादिचतुः शरणरूपश्चेतसो निवेशः ॥ १५ ॥ परमलय :--आत्मन्येवात्मानं लीनं पश्यतीत्येवंरूपः ॥१६॥ लव :---द्रव्यतो दानादिभिः शस्यादेर्लवनम् ; भावतः कर्मणां शुभध्यानानुष्ठानलेबनम् ॥ १७ ॥ परमलव:---उपशमश्रेणि-क्षपकश्रेणी ॥ १८ ॥ मात्रा--द्रव्यत उपकरणादिपरिच्छेदः, भावतः समवसरणान्तर्गतं सिंहासनोपविष्टं देशनां कुर्वाणं तीर्थङ्करमिवात्मानं पश्यति ॥ १९ ॥ परममात्रा--चतुर्विंशत्या वलयः परिवेष्टितमात्मानं ध्यायति, तद् यथा-- ॥२०॥ पदं--द्रव्यतो लौकिकं राजादि ५, लोकोत्तरमाचार्यादि ५, भावतः पञ्चानां परमेष्ठिपदानां ध्यानम् ॥ २१ ॥ परमपद--पञ्चानां परमेष्ठिपदानामात्मनि न्यासः आत्मनस्तदध्यारोपेण परमेष्ठिरूपतया चिन्तनमित्यर्थः ॥ २२ ॥ सिद्धि:--लौकिकाणिमादिरष्टधा, लोकोत्तरा राग-द्वेषमाध्यस्थ्यरूपपरमानन्दलक्षणा; भावतो मुक्तिपदप्राप्तजीवानां-- ‘से न दीहे न हस्से' इत्यादि (३१)--'अहवा कम्मे णव दरिरसम्मि०' पत्यादि (३१)-मीलने (६२) द्वापष्टिगुणचिन्तनम् ॥ २३ ॥ परमसिद्धिः--मुक्तगुणानामात्मन्यध्यारोपणम् ॥ २४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001519
Book TitleDhyanavichar
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1990
Total Pages384
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Dhyan, Yoga, & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy