SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ध्यान विचार-मूल पाठ ध्यानं', परमध्यानम्', शून्यं, परमशून्यम्, कला', परमकला', ज्योति, परमज्योतिः, विन्दुः, परमबिन्दु :, नादः", परमनादः", तारा", परमताराः", लयः', परमलयः", लवः", परमलवः", मात्रा", परममात्रा", पदं", परमपदम् , सिद्धिः, परमसिद्धिः", इति ध्यानमार्गभेदाः ॥ उक्तं च "सुन-कलै-जोई-बिंदू' नादो तारा लओ लवो मत्ती । पर्य-सिद्धी" परमजुया झाणाई' हुति चउवीसं ॥१॥" तत्र ध्यानं --चिन्ता-भावनापूर्वकः स्थिरोऽध्यवसायः । द्रव्यश्चात-रौद्रे भावतस्तु ? आज्ञाऽपाय-विपाक-संस्थानविचायभिदं धर्मध्यानम् ॥ १॥ शून्य-चिन्ताया उपरमः । द्रव्यशून्यं क्षिप्तचित्तादिना द्वादशधा -- "खित्ते' दित्तम्मत्ते राग-सिणेहाइभयमहऽव्वत्ते । निदाइ-पंचगेणं बारसहा दव्वसुन्नं ति ॥ २ ॥" भावतो व्यापारयोग्यस्यापि चेतसः सर्वथा व्यापारोपरमः ॥ ३॥ परमशून्य-त्रिभुवनविषयव्यापि चेतो विधाय एकवस्तुविषयतया संकोच्य ततस्तस्मादप्यपनीयते ॥४॥ कला-द्रव्यतो मल्लादिभिर्नाडीचम्पनेन या चटाप्यते, भावतस्तु अत्यन्ताभ्यासतः स्वयमेव देशकाल करणाद्यनपेक्ष्य या समारोह ति, अन्येन त्ववतार्यते,यथा पुष्पभूतेराचार्यस्य पुष्प(प्य?) मित्रेण कलाजागरणं कृतम् ॥ ५ ॥ परमकला-या सुनिष्पन्नत्वादभ्यासस्य स्वयमेव जागर्तिः यथा चतुर्दशपूर्विणां महाप्राणध्याने ॥६॥ ज्योतिः-- चन्द्र-सूर्य-मणि-प्रदीप-विधुदादि द्रव्यतः, भावतोऽभ्यासादनुलीनमनसो भूत-भवद्भविष्यद्वहिर्वस्तुसूचा विषयप्रकाशः ॥ ७ ॥ परमज्योति :-येन सदाऽप्ययत्नेनापि समाहितावस्थायां पूर्वस्माच्चिरकालभावी प्रकाशो जन्यते ॥ ८ ॥ बिन्दु :-द्रव्यतो जलादेः, भावतो येन परिणामविशेषेण जीवात् कर्म गलति ॥९॥ "उवरिमठिईदलियं हेछिमठाणम्मि कुणइ गुणसेढी ॥ १० ॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001519
Book TitleDhyanavichar
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1990
Total Pages384
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Dhyan, Yoga, & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy