________________
[२]
આચાર્ય છવદેવસૂરિ-રચિત तत्र राग द्वेष-मोहादि- जयाजिनास्तर्जितमिति क्रिया। असा. धारणगुणोपादानादन्यतीर्थिकासम्भवाच्च [गुणानां त एव जयन्ति । ते विशेष्यन्ते सिद्धैः प्रतिष्ठितैरव्याहतैरित्यर्थः, तैः सिद्धैः । तथा सिद्धानि यानि लोके मङ्गलानि दध्यक्षत-सु[ वर्णादी नि, तेभ्योऽपि मङ्गलभूतैर्जिनस्तान्यप्यतिशयिता नि मङ्गलानीत्यर्थः । कल्याणो मोक्षः, तत्र सम्पदा परम्पर-कारकाः। यतः ['सम्यगदर्शन-ज्ञान]-चारित्राणि मोक्षमार्ग: ' [तत्त्वार्थसू. अ. १, सू १} इत्युपदेशः। तथा मोहान्धकारादिति मोहोऽज्ञानं स एवान्धकारस्तस्य निकरः समूह स्तस्यैव । 'एकशब्दस्य प्रधानवाचित्वात् ' । सम्प्राप्त-शाश्वत-सुखैः सम्प्राप्तं १शाश्वतं सुखं यैः ‘बहुव्रीहिः । चतसृष्वपि गतिध्वशाश्वतं सुखम् , पञ्चमी गतिर्मोक्षस्तत्र चैकरूपं सुखमेव । तथाहि-शरीरं दुःख-कारणं, कर्म च; तयोर्द्वयोरप्यभावात् शाश्वतं सुखमेव भवति । तै[ रेवंभू ........... मिति । अत्राह परः'सिद्धाः सर्वज्ञा इत्यत्र प्रमाणं नास्ति'। नैतदस्त्यागमः म्बल्वत्र प्रमाणम् । सर्वज्ञत्वे च प्रमाणम्" सूक्ष्मान्तरित-दरार्थाः, प्रत्यक्षा ]: कस्यचिद् यथा ।
अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञ-संस्थितिः ।।"
अत्र च बहु वक्तव्यम् , तत्तु नोच्यते, विषम-पदार्थविवर[णमात्रत्वात् प्रयासस्य, इत्यलं विस्तरेण ॥ १ ॥
ગુજરાતી અનુવાદ
(Nird भगा) સમસ્ત પાપ-સમૂહને હણનારા જિનેશ્વરને આદિમાં પ્રણામ કરીને અને પ તથા પુસ્તકથી વિભૂષિત વરદા(વર દેનારી) १. ता. सास्व०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org