SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ અહંદભિષેક-વિધિ [११७] [ उपजातिः] कृत्वाऽर्हतः स्नात्रविधि विधानाद, अनन्तकल्याणयुजो यथोक्तम् । ततः प्रभामण्डल-मण्डितानां, कुर्यात् ग्रहाणां क्रमशोऽभिषेकम् ॥ १९ ग्रहस्नानानन्तरं बलि-पुष्प-दक्षिणादिक्रममाह ___ [अनुष्टुप.] यथावर्ण-बलि-सग्भिः , यथावर्ण-विलेपनः । यथोक्त-दक्षिणा-दानः, कृत्वा सानुग्रहान् ग्रहान् ॥ २० [पं. ] यथावर्ण-बलि-'स्रग्भिरिति यो यस ग्रहस्य वर्णस्तस्य तादृग्वर्ण एव बलिः, स्रक् च कार्येति; एवं विलेपनान्यपीति । यथोक्तानि योग्यानि यानि दक्षिणा-दानानि तैः सानुग्रहान सप्रसादान ग्रहान् कृत्वा । ततश्च यतीन् पूजयेदिति संबन्धः। तत्र तावदादित्यो हिङ्गुलुकवर्णः। तस्य बली रक्तशालिना कार्यः । साधुभ्यो भोजन गुडौदन-प्रधानं देयम्, दक्षिणा तु रक्तचन्द्रोदकः । सोम : ४श्वेतः । बलि: ४श्वेत एव गर्भषष्टिकैः, पुष्पाणि च कुन्दादीनि इति । साधुभ्यो भोजनं घृत-प्रधानं पायसं, दक्षिणा शङ्खः । १ ता. श्रग्भि । २ ता. श्रक्च। ३ ता. न्यापैति । ४ ता. स्वेतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy