SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] उक्तार्थे संमतिमाह मुविहिअ दुबिहियं वा, णाहं जाणामि हं खु छउमत्थो । लिंगं तु पुआयामी, तिगरणसुद्धण भावेणं ॥१३४॥ 'सुविहिय'त्ति । शोभनं विहितम्--अनुष्ठानं यस्यासौ सुविहितस्तम् , अनुस्वारलोपोऽत्र द्रष्टव्यः, दुर्विहितस्तु पावस्थादिस्तं दुर्विहितं वा 'नाहं जानामि' नाहं वेद्मि, यतोऽन्तःकरणशुद्धथशुद्धिकृतत्वं सुविहितदुर्विहितत्वम् , परभावस्तु तत्त्वतः सर्वज्ञज्ञानविषयः, 'अहं खु छउमत्थोत्ति अहं पुनश्छद्मस्थः, अतः 'लिङ्गमेव' रजोहरणगोच्छपतद्ग्रहधरणलक्षणं 'पूजयामि' वन्दे इत्यर्थः 'त्रिकरणशुद्धेन भावेन' वाकायशुद्धेन मनसेत्यर्थः ।।१३४॥ હવે વાદી પિતાના પક્ષની પુષ્ટિ માટે ઉક્ત વિષયમાં આવશ્યક વંદનાધ્યયનની ગા. ૧૧૨૨ ની સાક્ષી આપે છે : જેનું અનુષ્ઠાન સારું છે તે સુવિહિત છે.” પાર્થસ્થ વગેરે વિહિત છે. (શિષ્ય કહે છે કે, સુવિહિતને કે દુર્વિહિતને હું જાણતો નથી. કારણ કે સુવિહિતપણું અને દુર્વિહિતપણું અંતઃકરણની શુદ્ધિથી અને અશુદ્ધિથી છે, અને આ અન્યને ભાવ જાણ તે પરમાર્થથી સર્વજ્ઞના જ્ઞાનને વિષય છે. હું તે છવસ્થ છે, તેથી હું રહરણ, ગુચ્છા, અને પાત્રને ધારણ કરવા રૂપ લિંગને ત્રિકરણ શુદ્ધિથી એટલે કે વચન અને કાયાથી શુદ્ધ મનવડે વંદન કરું છું. [૧૩૪ एतनिराकर्तुमाह एयमजुत्तं जम्हा, वभिआरेणं ण लिंगमवि अंग । जं भणियमिणं लिंगाभिणिवेसणिरासमहिगिच्च ॥१३५॥ 'एयमजुत्त'ति । एतदयुक्तं यल्लिङ्गमेव वन्दनीयतायां प्रवृत्तौ वाङ्गमिति, यस्माल्लिङ्गमपि व्यभिचारेण नाङ्गमिति; न हि 'अयं वन्दनीयः, लिङ्गवत्त्वात्' इत्यनुमानं संभवति, निवेषु व्यभिचारात , तत्रं लिङ्गसत्त्वेऽपि वन्दनीयत्वस्याभावात् , अत एव लिङ्गवत्त्वावच्छेदेन वन्दनीयत्वज्ञानं न संभवतीति 'अयं लिङ्गवानतो वन्दनीयः' इति प्रत्यभिज्ञानमप्यसम्भवि, अत एव च लिङ्गवत्त्वं नेष्टसाधनतावच्छेदकमपीति 'अयं लिङ्गवान्' इति ज्ञानमपि नेष्टसाधनतावच्छेदकप्रकारकं सत् प्रवृत्तिनिर्वाहकमिति । अत्रार्थे संमतिमाह-यद् भणितमिदं लिङ्गस्य योऽभिनिवेश:लिङ्गमेव वन्दनीयताङ्गमित्याकारो योऽसद्महस्तन्निरासं 'अधिकृत्य' अभिप्रेत्य ॥१३५॥ जइ ते लिंग पमाणं, वंदाही णिहए तुमं सव्वे । एए अवंदमाणस्स लिंगमवि अप्पमाणं ते ॥१३६॥ 'जइ तेत्ति । 'यदि' इत्ययमभ्युपगमप्रदर्शनार्थः 'ते' तव 'लिङ्ग' द्रव्यलिङ्गम् , अनु. स्वारोऽत्र लुप्तो द्रष्टव्यः, प्रमाणं वन्दनकरणे इत्थं तर्हि बन्दस्व 'निहवान्' जमालिप्रभृतीन् त्वं 'सर्वान्' निरवशेषान् , द्रव्यलिङ्गयुक्तत्वात्तेषामिति । अथैतान् मिथ्यादृष्टित्वान्न वन्दसे થ. ૧૫ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001508
Book TitleGurutattvavinischay Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1987
Total Pages294
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Principle, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy