________________
गुरुतत्त्वविनिश्चये प्रथमोल्लासः ]
- [४७ इत्यर्थः, 'ज्ञेये' प्रमाणपरिच्छेद्य वस्तुनि 'भेदाभेदाभिसन्धयः' सामान्यविशेषविषयाः पुरुषाभिप्राया अपेक्षानपेक्षाभ्यां लक्ष्यन्ते ते यथासङ्ख्यं नयदुर्नया ज्ञातव्याः । किमुक्तं भवति ? विशेषसाकाङ्क्षः सामान्यग्राहकोऽभिप्रायो विशेषपरिग्राहको वा सामान्यसापेक्षो नयः, इतरेतराकाङ्क्षारहितस्तु दुर्नयः । नयचिन्तायामपि च ते दिगम्बराः स्यात्पदप्रयोगमिच्छन्ति, तथा चाकल एव प्राह ... 'नयोऽपि तथैव सम्यगेकातविषयः स्यात् ” इति । अत्र टीकाकारेण व्याख्या कुता-'नयोऽपि नयप्रतिपादकमपि वाक्यं न केवलं प्रमाणवाक्यमित्य पिशब्दार्थः, 'तथैव' स्यात्पत्प्रयोगप्रकारेणव सम्यगेकान्तविषयः स्वात् , यथा स्यादरत्येव जीव इति । स्यात्पदप्रयोगाभावे तु मिथ्यैकान्तगोचरतया दुर्नय एव स्थादिति' । तदेतदयुक्तं, प्रमाणनयविभागाभावप्रसक्तः, तथाहि-स्याज्जीव एवेति किल प्रमाणवाक्यम् , स्यादस्त्येव जीव इति नयवाक्यम् , एतद् द्वयमपि लघीयस्तयालङ्कारे साक्षादकलङ्कनोदाहृतम् । अत्र चोभयत्राप्यविशेषः, तथाहि-' स्याज्जीवः [एव]' इत्यत्र जीवशब्देन प्राणधारणनिबन्धना जीवशब्दवाच्यताऽभिधीयते, एवकारप्रयोगतो (ऽजीवशवाच्यतानिषेधः, स्याच्छब्दप्रयोगतो)ऽसाधारणसाधारणधर्माक्षेपः । स्यादरत्येव जीव इत्यत्र जीवशब्देन जीवशब्दवाच्यताप्रतिपत्तिरस्तीत्यनेनोद्भूतविवक्षितास्तित्वावगतिः, एवकारप्रयोगात्तु यदाशङ्कितं सकलेऽपि जगति जीवस्य नास्तित्वं तद्व्यवच्छेदः । स्यात्पदप्रयोगात् साधारणासाधारणधर्मप्रतिपत्तिरित्युभयत्राप्यविशेष एव । तथा च सिद्धव्याख्याता न्यायावतारविवृतौ स्यादस्त्येव जीव इति प्रमाणवाक्यमुपन्यस्तवान् , तथा च तद्गतो ग्रन्थः" यदा तु प्रमाणव्यापारमविकलं परामृश्य प्रतिपादयितुमभिप्रयन्ति तदाङ्गीकृतगुणप्रधानभावाशेषधर्मसूचककथञ्चित्पर्यायस्याच्छब्दविभूषितया सावधारणया च वाचा स्यादस्त्येव जीव इत्यादिकया दर्शयन्ति । अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्द क्रियाभ्यां प्रधानीकृतात्मभावस्थावधारणव्यवच्छिन्नतदसम्भवस्य वस्तुनः संदर्शकत्वात्सकलादेश इत्युच्यते, प्रमाणप्रतिपन्नसम्पूर्थिकथन मिति यावदित्यादि ।” तस्मादस्मदुक्तैव प्रमाणनयव्यवस्था समीचीना, यथा यो नाम नयो नयान्तरसापेक्षः स परमार्थतः स्यात्पदप्रयोगमभिलषन् सम्पूर्ण वस्तु गृह्णातीति प्रमाणेऽन्तर्भावनीयः । नयान्तरनिरपेक्षस्तु नयो दुर्नयः, स च नियमान्मिथ्याष्टिरेव, सम्पूर्णवस्तुग्राहकत्वाभावादिति ।” अत्रे. दमवधेयम्-यो नाम नयो नयान्तरापेक्षस्तस्य प्रमाणान्तर्भावे व्यवहारनयः प्रमाणं स्यात् , तस्य तपःसंयमप्रवचनग्राहकत्वेन संयमग्राहिनिश्चयविषयविषयकत्वेन तत्सापेक्षत्वात् । शब्दनयानां च निक्षेपचतुष्टया(न)भ्युपगन्तृणां भावाभ्युपगन्तृशदनयविषयविषयकत्वेन तत्सापेक्षत्वात्प्रमाणस्वापत्तिः। नयान्तरवाक्यसंयोगेन सापेक्षत्वे च ग्राह्ये स्यात्पदप्रयोगेण सप्रतिपक्षनयद्वयविषयावच्छेदकस्यैव लाभात् , तेनानन्तधर्मकत्वापरामर्शः, न चेदेवं तहाऽनेकान्ते सम्यगेकान्तप्रवेशानुपपत्तिरवच्छेदकभेदं विना सप्रतिपक्षविषयसमावेशस्य दुर्वचत्वात् , इष्यते चायम् , यदाह महामतिः-" भयणा वि हु भइयव्या, जह भयणा भयइ सव्वदव्वाई । एवं भयणानियमो, वि होइ समयाविराहणया ॥१॥” इति । समन्तभद्रोऽप्याह-" अनेकान्तोऽप्यनेकान्तः, प्रमाणनयसाधनः ।
* मी ॥१२५४ जना (५. श्रीमरायगिरिसूरि म४२४) ५४ पू याय छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org