________________
[ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते र्थात्प्रतीयते । विधौ निषेधेऽन्यत्रापि, कुशल श्वे प्रयोजकः ॥१॥” अनान्यत्रापीति अनुवादातिदेशादिवाक्येषु । ननु यदि सर्वत्र स्यात्पदप्रयोगानुसरणं तहि मूलत एवापगतोऽवधारणविधि;, परस्परमनयोविरोधात् , तथाहि-अवधारणमन्यनिषेधपरं स्यात्पदप्रयोगस्त्वन्यसङ्ग्रहणशील इति, तदयुक्तम्, सम्यग्वस्तुतत्त्वापरिज्ञानात् , स्यात्पदप्रयोगो हि विवक्षितवस्त्वनुयायिधर्मान्तरसंग्रहणशीलः, अवधारणविधिस्तु तत्तहाशङ्कितान्ययोगादिव्यवच्छेदादिफलः, तथाहि-ज्ञानदर्शनवीर्यसुखोपेतः किं जीवो भवति किं वा न ? इत्याशङ्कायां प्रयुज्यते स्याज्जीव एव । अत्र जीवशब्देन प्राणधारणनिबन्धनं जीवशब्दवाच्यत्वमभिधीयते । एवकारेण यदाशङ्कितं परेणाजीवशब्दवाच्यत्वं तस्य निषेधः। स्यात्पदप्रयोगात् तु ये ज्ञानदर्शनसुखादिरूपा असाधारणाः ये त्वमूर्त्तत्वासङ्ख्यातप्रदेशत्वादिलक्षणा धर्मास्तिकायादिसाधारणाः येऽपि व सत्त्वप्रमेयत्वधर्मित्वगुणित्वादयः सर्वपदार्थसाधारणास्ते सर्वे प्रतीयन्ते । यदा तु ज्ञानदर्शनादिलक्षणो जीवः कि वाऽन्यलक्षणः ? इत्याशङ्का तदैवमवधारणविधिः-स्यात् ज्ञानादिलक्षण एव जीवः । अत्र जीवशब्देन जीवशब्दवाच्यतामात्र प्रतीयते, ज्ञानादिलक्षण एवेत्यलक्षणव्युदासः, स्यात्पदप्रयोगात्साधारणासाधारणधर्मपरिग्रहः। यदा तु जगति जीवोऽस्ति किं वा न ? इत्यसम्भवाशङ्का तदैवमवधारणं-स्थादस्त्येव जीवः । अत्रापि जीवशब्दप्रयोगाजीवशदवाच्यताऽवगतिः, स्यात्पदप्रयोगादसाधारणसाधारणधर्मपरिग्रहः, अस्त्ये. वेत्यवधारणादसम्भवाशङ्काव्यवच्छेदः । एवमन्यत्रापि साक्षाद् गम्यमानत या वा स्यात्पदप्रयोगपुरःसरं यथायोगमवधारणविधिः सम्यक्प्रवचनार्थ जानानेन प्रयोक्तव्यः । अवधारणाभावे तु जीवाजीवादिवस्तुतत्त्वव्यवस्थाविलोपप्रसङ्गः, तथाहि-यद्यन्यव्यवच्छेदेन ज्ञानदर्शनोपयोगलक्षणो जीव एवेति नावधार्यते तर्हि अजीवोऽपि तल्लक्षणः स्यादिति जीवाजीवव्यवस्थालोपः । तथा यदि ज्ञानदर्शनोपयोगलक्षण एव जीव इत्यन्ययोगव्यवच्छेदो नाभ्युपगम्यते ततोऽन्यत्किमप्यजीवानुगतमजीवसाधारणं वा तथालक्षणमाशङ्कयेत, तथाच जीवेतरविभागपरिज्ञानाभावः । ततो यथा सम्बग्यादित्वमिच्छता सर्वत्र स्यात्पदप्रयोगः साक्षाद् गम्यो वाऽनुश्रियते, तथा यथायोगमवधारणविधिरपि, अन्यथा यथाऽवस्थितवस्तुतत्त्वप्रतिपत्त्यनुपपत्तेः । न चावधारणविधिः सिद्धान्ते नानुमत इति वक्तव्यम् , स्त्र तत्र प्रदेशेऽनेकशोऽवधारणविधिदर्शनात् , तथाहि-"किमयं भंते ! कालो त्ति पवुच्चइ ? गोयमा ! जीवा चेव अजीवा चेव ।” स्थानाङ्गेऽप्युक्तम्-"जदित्थं च णं लोए तं सर्व दुपडोआरं, तंजहा-जीवा चेव अजीवा चेव । तहा-जह चेव उ मोक्खफला आगा आराहिआ जिणिंदाणं" इत्यादि । या त्ववधारणी भाषा प्रवचने निषिध्यते सा क्वचित् तथारूपवस्तुतत्त्वनिर्णयाभावात् , क्वचिदेकान्तप्रतिपादिका वा, न तु सम्यग्यथावस्थितवस्तुतत्त्वनिणये स्यात्पदप्रयोगावस्थायामिति । दैगम्बरी त्वियं प्रमाणन यपरिभाषा-“सम्पूर्णवस्तुकथनं प्रमाणवाक्यम् , यथा-स्याज्जीवः स्याद्धर्मास्तिकाय इत्यादि । यस्त्वेकदेशकथनं नयवादः ।" तत्र यो नाम नयो नयान्तरसापेक्षः स नय इति वा सुनय इति वा प्रोच्यते, यस्तु नयोन्तरनिरपेक्षः स दुर्नयो नयाभास इति, तथा चाहाकलङ्क:-"भेदाभेदात्मके ज्ञेये, भेदाभेदाभिसन्धयः । ये तेऽ पेक्षान पेक्षाभ्यां, लक्ष्यन्ते नयदुर्नयाः ॥१॥" अस्याः कारिकाया लेशतो व्याख्या-भेदः-विशेषः अभेदः- सामान्यं तदात्मके- सामान्यविशेषात्मक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org