________________
। ४५
गुरुतत्त्वविनिश्चये प्रथमोल्लासः ]
'अण्णुण्णं'ति । 'अन्योऽन्यं' परस्परं 'मिलितानाम्' अर्पणानर्पणाभ्यां संभूय साकल्येन सप्तमगोपस्थापकत पा संबद्धानां नयानां प्रमाणतज्ञा, सातभङ्ग परिकरितपरिपूर्णार्थबोधकतापर्याप्तिमद्वाक्यस्यैव प्रमाणात प्रत्वात् । तथाहि-प्रतिपयोयं तावत्सप्तधैव सन्देहः, स्वगोचरवस्तुधर्माणां सतविधत्वनियमात् , ततश्च स तथा जिज्ञासा, ततः सातवा प्रतिपाद्यपर्यनुयोग इति, तदनुरोधात्सप्तभङ्गात्मकमेव प्रमाणवाक्यमुपन्यसनीयं, न त्वेकादिभङ्गविकलं, सन्देहशेषाविच्छेदात् प्रत्यक्षस्यावग्रहादिचतुष्टयान्यतरवैकल्य इबागमस्याप्येक विभङ्गवैकल्ये प्रमाणत्वाव्यवस्थानात् । सप्तभङ्गात्मकमपि च वाक्यं यद्यप्युक्तसकलसमारोपव्यवच्छेदकतबा प्रमाणं तथापि विकलादेशस्वभावत्वेऽनन्तधर्मात्मकपरिपूर्णवस्त्वप्रापकत्वादप्रमाणम् । सकलादेशस्वभावत्वे तु विपर्ययात्प्रतिभङ्गं प्रमाणम् । सकलादेशस्वभावत्वं चास्तित्वादिधर्माणां शेषानन्तधभैः सम द्रव्यार्थिकनयप्राधान्ये पर्यायार्थिकनयगौणभावे चाभेदवृत्त्या पर्यायार्थिकनयप्राधान्ये द्रव्यार्थिकनयगौणभावे चाभेदोपचारेण युगपदनन्तधर्मात्मकप्रतिपादकत्वम् । विकल देशस्वभावत्वं च भेट्वृत्तितदुप वाराभ्यामे कशब्दस्यानेकार्थत्यायन शायभावलक्षण कमेण त प्रतिपादक बम्, तदुक्तं प्रमाणनयतत्त्वालोकालङ्कारे-"इयं सप्तभङ्गी प्रतिभङ्ग सकलादेशस्वभाषा विकलादेशस्वभावा च ४-४३। प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिमिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा योगपद्यने प्रतिपादकं वचः सकलादेशः ४-४४ । तद्विपरीतस्तु विकलादेशः ४-४५ ।” इति । इतरस्य-भिन्नस्य नयस्याविराधनेन-अप्रतिक्षेपेण नयसञ्ज्ञा । 'इतरथा तु' इतरनयप्रतिक्षेपे तु दुर्नयसञ्ज्ञा । तदाहुदेवसूरयः-"नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ७-१ । स्वाभिपेतादशादितरांशापलापी पुनर्नयाभासः ७-२।” इति । उल्लेखस्तु नयस्य सदिति, दुर्नयस्य तु सदेवेति, तदाहुः श्रीहेमचन्द्रसूरयोऽपि "सदेव सत्स्यात्सदिति विधार्थो मीयेत दुर्नीतिनयप्रमाणैः ।” इति । स्यात्कारैवकारोचारणान्तर्भावेन स्या इस्त्येवेत्युल्लेखोऽपि न यस्य युक्त एव, विकलादेशस्वभाषायाः सातभङ्गया अपि प्रवृत्तेः वस्त्वंशग्राहकत्वेनैव प्रमाणसप्तभङ्गीतोऽस्या विशेषात् , तदुक्तम्-"नयवाक्यमपि स्वविषये प्रवर्तमान विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति" इति । न चैवं नयः स्वपरव्यवसायित्वेन प्रमाणं स्याद् , वस्त्वेकदेशाऽज्ञाननिवृत्ति कलस्य तस्य वन्यज्ञान ने मृत्ति कलात्प्रमाणाद् भिन्नत्यव्यवस्थापनादित्यधिक स्याद्वादकल्पलता-नयरहस्यादौ विवेचितमस्माभिः। मलयगिरिपादाः पुनरित्थमाहुरावश्यकवृत्ती इह यो नयो नयान्तरसापेझतया स्याद्वात्पदलाञ्छितं वस्तु प्रतिपद्यते स परमार्थतः परिपूर्ण वस्तु गृह्णातीति प्रमाण एवान्तर्भवति । यस्तु नयवादान्तरनिरपेक्षतया स्वाभिप्रेतेनैव धर्मणाऽवधारणपूर्वकं वस्तु परिच्छेत्तु मभिप्रेति स वस्त्वेकदेशपरिग्राहकत्वान्नय इत्युच्यते, स च नियमामिथ्यादृष्टिरेव, अयथावस्थितार्थवस्तुपरिग्राइकत्वात् , अत एवोक्तमन्यत्र-“सब्वे णया मिच्छावाइणो"त्ति । यत एव च नयवादो मिथ्यावादस्तत एव जिनप्रवचनतत्त्ववेदिनो मिथ्यावादित्व. परिजिहीर्ष या सर्वमपि स्यात्कारपुरस्सरं भाषन्ते, न तु जातुचिदपि स्यात्कारविरहितम् । यद्यपि च लोकव्यवहारपथमवतीर्णा न सर्वत्र सर्वदा साक्षात्स्यात्पदं प्रयुङ्क्ते तथापि तत्राप्रयुक्तोऽपि सामर्थ्यात् स्याच्छब्दो द्रष्टव्यः, प्रयोजकस्य कुशलत्वात् , उक्तं च-"अप्रयुक्तोऽपि सर्वत्र, स्यात्कारोऽ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org