________________
गुरुत्वविनिश्वये प्रथमोल्लासः ]
,
अत्र परः शङ्कते 'नणु' इत्यादिना -
नणु आलंबणमित्तं बज्झं ववहारसंमयं वत्थु |
णिच्छयओ चिय सिद्धी, साहूण सुअम्मि जं भणियं ॥ १८ ॥ परमरहस्समिसीणं, समत्तगणिपिडगझरिअसाराणं । परिणामियं पमाणं णिच्छयमवलंब माणा ॥१९॥
[ १५
ननु बाह्यं व्यवहारसंमतं वस्तु 'आलम्बनमात्रं ' पटसामय्यामाकाशादिवदवर्जनीयसंनिधिकमात्रं न तूपादानत्कारणमपि, अतिशयितस्योपादानस्यैव कार्याधानसमत्वात् । अतो निश्चयत एव साधूनां सिद्धिः, शुद्धनिश्चयेन बाह्यकारणाधिक्यनिरासवच्छुद्धतरनिश्चयेन बाह्यकारणमात्रस्यापि निरासाद्, आत्ममात्रप्रतिबद्ध कार्यकारणभावविचारसारतया बहिः संकल्पविकल्पपरम्परानिवृत्तेरे कान्तस्थैर्यसिद्धेः । 'यत्' यस्मात् 'श्रुते' ओघनियुक्त्याख्ये भणितम् ||१८|| 'परम'त्ति | परमं रहस्यं तत्त्वं ऋषीणां समग्रगणिपिटकस्य झरितः - पठितः सारो यैस्तेषां 'पारिणामिकं' परिणामभवं प्रमाणं भवति निश्चयनयमवलम्बमानानाम्, यतः शब्दादिनिश्चयनयाः पारिणामिकमिच्छन्तीति ॥१९॥
एतदेवोपपादयति
Jain Education International
सुद्धो अ णिच्छयणओ, सुद्धाएसा य परमभावगया । अपरमभावगयाणं, ववहारो नूणमुवयारो ।। २० ।।
"
'सुद्धो अ'ति । शुद्धश्च निश्चयनयः कतकनिपातोपजनितपङ्कपयोविवेकस्थानीयस्व पुरुषकाराविर्भा वितसहजै काच्छभावमयात्मकर्मविवेकानु भवन शीलत्वात् न तु प्रबलपङ्कसंवलनतिरोहितसहजै काच्छभावपयोऽनुभवस्थानीयात्मकर्माविवेक बीजभाववैश्वरूप्यानुभवन शीलव्यवहारनयवदशुद्धः, तदुक्तं समयसारे- " ववहारोऽभूयत्थो, भूयत्थो देसिओ दु सुद्धणओ । भूयत्थमासिओ खलु, सम्मद्दिट्ठी हवइ जोवो ॥ १ ” त्ति । ‘परमभावगताश्च' पर्यन्तप । कोत्तीर्णजात्यका र्त्तस्वरस्थानीयपरम भावानुभव नशीलाश्च उपरितनैकवर्णिकास्थानीयशुद्धनयावलम्बितया 'शुद्धादेशाः ' शुद्धद्रव्यादेशिनः । 'अपरमभावगतानां ' प्रथमद्वितीयाद्यनेकपाकपरम्परापच्यमान कार्त्तस्वरस्थानीयापरम भावानुभवन शीलतयाऽशुद्धद्रव्या देशिनां व्यवहारः' विचित्रवर्णमालिकास्थानीयो व्यवहारनयः 'नूनं' निश्चितं 'उपचार' तदात्वप्रयोजनवन् । तदुक्तम् — “ सुद्धो सुद्धादेसो, णायव्वो परमभावदरिसीहिं । वबहारदेसिदा पुण, जे उ अपरमे ठिआ भावे ॥ १ ॥ " इति । तथा चाभ्यासदशायां कथञ्चिद्वयवहारः फलवान्न तु तत्त्वदशायामिति स्थितम् । तदुक्तम् — “ जइ जिणमयं पवज्जह, ता मा ववहारणिच्छए मुअह । एकेण विणु ज्झिज्जर, तित्थं अष्णेण उण तच्चं ॥ १ ॥ "ति । किञ्च - " ब्राह्मणो न म्लेच्छितव्यः " इति वचनाद् ब्राह्मणः परमार्थतो म्लेच्छभाषां न भाषते, स्वभाषया प्रतिबोद्धुमशक्यस्य म्लेच्छस्य बोधनाय तु भाषतेऽपि, तथा म्लेच्छभाषास्थानीयत्वेन तत्त्वप्रतिपादकत्वादुपन्यसनीयोऽपि व्यवहारः परमार्थतो नानुसर्त्तव्यः । कथमयं तत्त्वं प्रतिपादयति ? इति चेत्, इत्थम् —यः श्रुतेन केवलमात्मानमवगच्छति स श्रुतकेवलीति परमार्थः । न चैतच्छुद्धं
For Private & Personal Use Only
www.jainelibrary.org