________________
१२ ]
[ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते ननु यद्येवं नामादीनां भावपारतन्त्र्येण भावकार्यकारित्वं तदा तद्विशेषानिर्जराविशेषोऽपि स्यान्न वा ? इत्याशङ्कायामाह
एयगओ अ विसेसो, भावं ववहारओ विसेसेइ ।
णेच्छइअणओ णेच्छइ, एयं णियमस्स भंगेणं ॥ १६ ॥
'एयगओ 'त्ति । एतद्गतः' नामादिगतश्च विशेषः 'व्यवहारतः' व्यवहारनयमाश्रित्य भावं विशेषयति, यथा यथाऽऽलम्बनीभूते बाह्यवस्तुनि मात्रया गुणाधिकत्वं तथा तथा मनःप्रह्लादाधिक्येन प्रणिधातुर्निर्जराधिक्यमिति व्यवहारनयादेशाद् अस्ति हि वर्द्धमानादिनामभेदेन लक्षणयुक्तसमस्तालङ्कारालङ्कतप्रतिमादिस्थापनाभेदेन तत्तत्कल्याणपर्यायाभिमुखद्रव्यभेदेन श्रुतावधिमनःपर्यायादिभावभेदेन च बाह्यवस्तुनोऽपि प्रणिधातुर्निर्जराविशेषः । तदिदमुक्तं व्यवहारभाष्ये-“गुणभूइटुं दव्वम्मि जेण मत्ताहिअत्तर्ण भावे। इति वत्थूओ इच्छति, ववहारो णिजरं विउलं ।। १ ॥ लक्खणजुत्ता पडिमा, पासाईआ समत्तलंकारा । पल्हायति जह व मण, तह णिज्जरमो विआणाहि ।। २ ।। सुअव अतिसयजुत्तो, सुहोचिओ तह वि तवगुणुजत्तो । जो सो मणप्पसाओ, जायइ सो णिजरं कुणइ ॥३॥” त्ति । नैश्चयिकनयस्तु नैतदिच्छति-यदुत नामादिबाह्यवस्तुविशेषानिर्जराविशेष इति, 'नियमस्य भङ्गेन' अधिकतरगुणवस्तुत एवाधिकतरो भाव इति व्याप्तौ व्यभिचारात् , अधिकतरगुणवर्द्धमानस्वाम्यपेक्षयाल्पगुणेऽपि गौतमस्वामिनि गुरुपरिणामेन सिंहजीवस्य महानिर्जराप्रतिपादनात् , तदुक्तं व्यवहारभाष्य एव- “णेच्छइओ पुण अप्पे, वि जस्स वत्थुम्मि जायए भावो। तत्तो सो णिज्जरगो, जिणगोअमसीहआहरणं ॥१॥" निश्चयतः पुनः 'अल्पेऽपि' महागुणतराद्धीनगुणेऽपि वस्तुनि यस्य जायते तीव्रः शुभो भावः तस्मात' महागुणतरविषयभावयुक्तात् 'सः' हीनगुणविषयतीव्रशुभभावो 'निर्जरकः' महानिर्जरतरः, तद्भावस्यातितीव्रशुभतरत्वात् , अत्र जिनगौतमसिंहजीवा आहरणं, तच्चैवम्-" तिविद्वत्तणे भयवया वद्धमाणसामिणा सीहो णिहओ अधिति करेइ ‘खुडुलगेण णिहतोमि' त्ति परिभवात् । गोअमेण सारहित्तणेणमणुसासिओ 'मा अधिति करेहि, तुम पसुसोहो, णरसीहेण मारियस्स तुमं को परिभवो ?' एवं सो अणुसासिजतो मओ संसार भमिऊण भगवओ वद्धमाणसामिस्स चरमतित्थयरभवे रायगिहे णगरे कविलस्स बंभणस्स घरे बडओ जाओ। सो अन्नया समोसरणे आगओ भयवंत दळूण धमधमेति । ततो भगवया गोअमसामी पेसिओ जहा अवसामेह । ततो गतो अणुसासिओ अ जहा—'एस महप्पा तित्थंकरो। एअम्मि जो 'पडिणिवेसेइ सो दुग्गति जाति' एवं सो उवसामिओ। तस्स दिवखा गोअमसामिणा दिन्न' त्ति ॥ १६॥
નામ આદિની વિશેષતાથી નિર્જરામાં વિશેષતા ભાવવસ્તુના આધારે જ નામ આદિ ભાવવસ્તુનું કાર્ય કરે છે, તો નામ આદિની વિશેષતાથી નિર્જરામાં વિશેષતા થાય કે નહિ? એ શંકાનું સમાધાન કરે છે -
ભાવવસ્તુના નામ આદિમાં રહેલ વિશેષતા વ્યવહારનયની દૃષ્ટિએ ભાવમાં વિશેષતા કરે છે. –ભાવની વૃદ્ધિ કરે છે. આલંબનભૂત બાહ્ય વસ્તુમાં જેમ જેમ ગુણનું પ્રમાણ १. “ पडिणिविसइ” इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org