________________
(५
गुरुतत्त्वविनिश्चये प्रथमोल्लासः ] महागहनेऽन्यः कश्चिन्न शरणमस्ति न भविष्यति नापि चाभवत् , कालत्रयेऽपि गुरुरेवात्र शरणमिति भावः ॥ ३ ॥
जह कारुणिओ विज्जो, देइ समाहि जणाण जरिआणं ।
तह भवजरगहिआणं, धम्मसमाहिं गुरू देइ ॥४॥ 'जह 'त्ति । यथा ' कारुणिकः' निरुपधिपरदुःखप्रजिहीर्षावान् वैद्यः 'ज्वरितानां' ज्वरवतां जनानां भेषजप्रदानादिना 'समाधि' द्रव्यस्वास्थ्यं ददाति तथा गुरुभवज्वर गृहीतानां रत्नत्रयलक्षणौषधप्रदानेन धर्मसमाधि दत्ते, तथा च भावारोग्यकारित्वात्परमो वैद्यो गुरुरिति भावः ॥४॥
जह दीवो अप्पाणं, परं च दीवेइ दित्तिगुणजोगा।
तह रयणत्तयजोगा, गुरू वि मोहंधयारहरो ॥५॥ 'जह 'त्ति । यथा दीपो दीप्तिगुणस्य-प्रकाशशक्तिलक्षणगुणस्य योगादात्मानं 'परं च' प्रकाश्यमर्थ दीपयति तथा ' रत्नत्रयस्य' ज्ञानदर्शनचारित्रलक्षणस्य योगाद् गुरुरपि मोहान्धकारहरः सन्नात्मानं परं चोपादाननिमित्तभावेन दीपयति, तथा च भावदीपत्वेनाभ्यर्हिततमो गुरुरिति भावः ॥५॥
जे किर पएसिपमुहा, पाविट्ठा दुधिनिल्लज्जा।
गुरुहत्थालंबेणं, संपत्ता ते वि परमपयं ।।६।। 'जे किर'त्ति । ये किल प्रदेशिनृपतिप्रमुखाः 'पापिष्ठाः' जीवास्तिक्याभावेनातिशायितपापाः, दुष्टाः-मोहदोषोपेतत्वात् , धृष्टाः--'कुवासनास्तब्धतादोषात् , निर्लज्जाः-स्वतन्त्रतादोषात् , तेऽपि गुरोः-केशिगणधरादेहस्तालम्बेनोक्तदोषनिवृत्त्या सुवासनाप्रवृत्त्या च 'परमपदं' पुण्यानुबन्धिपुण्यभोगोचितं स्थान प्राप्ता इति कृतपापानुबन्धहरत्वेन गुरुरेवाश्रयणीयः ।।६।।
उज्झियघरवासाण वि, जं किर कट्ठस्स णत्थि साफल्लं ।
तं गुरुभत्तीए चिय, कोडिनाईण व हविज्जा ॥७॥ 'उज्झिय'त्ति । उज्झितगृहवासानामपि चतुर्थादिकारिणां बालतपस्विनां यत्किल कष्टस्य नास्ति साफल्यं तद् गुरुभक्त्यैव 'कोडिन्यादीनां' गौतमगुरूपसम्पत्तिप्रभावप्राप्तकेवलज्ञानानां पञ्चदशशततापसानामिव भवेत् । अतः कष्टस्य साफल्यं गुरुभक्तिप्रयुक्तं तद्वैफल्यं चातभावप्रयुक्तमित्यन्वयव्यतिरेकाभ्यां क्रियाफलहेतुभूतभक्तिकतया गुरुरेवादरणीय इति भावः ॥ ७ ॥
दुहगब्भि मोहगब्भे, वेरग्गे संठिया जणा बहवे ।
गुरुपरतंताण हवे, हंदि तयं नाणगभं तु ॥८॥ 'दुह'त्ति । दुःखगर्भ मोहगर्भ च वैराग्ये बहवो जनाः संस्थिताः, आर्तध्यानपारवश्येन क्षणिकनैरात्म्यादिवासनायोगेन च बाह्यानां पार्थस्थनिवादिवासनाविप्रलब्धत्वेन च जैनाभासानां बहूनां वैराग्यलिङ्गधारणोपलम्भात् । ज्ञानगर्भ तु 'तद्' वैराग्यं 'हन्दी'त्युपदर्शने गुरुपरतन्त्राणां भवेत , गुरुपरतन्त्रताया एव ज्ञानलक्षणत्वात् “गुरुपारतंतं नाणं” इति वचनात , अतो ज्ञानगर्भवैराग्याधायकतयापि गुरुरेव गरीयानिति भावः ।। ८ ।।
१ 'दुर्वासना' 'दोषासना' इति वा पाठः । २ ‘च तदभाव '-इत्यपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org